This page has been fully proofread once and needs a second look.

श्रीः ।
श्रीपुष्पदन्तविरचितं
महिम्नस्तोत्रम् ।
 
मधुसूदन सरस्वतीकृतशिव विष्ण्वर्थकव्याख्यासहितम् ।
 
ॐनमः शिवाय ।
 
विश्वेश्वरं गुरुं नत्वा महिम्नाख्यस्तुतेरयम् ।
पूर्वाचार्यकृतव्याख्यासंग्रहः क्रियते मया ॥ १ ॥
 
एवं किलोपाख्यायते – कश्चित्किल गन्धर्वराजः कस्यचिद्राज्ञः
प्रतिदिनं प्रमदवनकुसुमानि हरन्नासीत् । तज्ज्ञानाय शिवनिर्मा-
ल्यलङ्घनेन मत्पुष्पचौरसान्तर्धानादिका सर्वापि शक्तिर्विनङ्क्ष्य-
तीत्यभिप्रायेण राज्ञा शिवनिर्माल्यं पथि निक्षिप्तम् । तदप्रतिसंधाय
च गन्धर्वराजस्तत्र प्रविशन्नेव कुण्ठितशक्तिर्बभूव । ततश्च शिवनिर्मा-
ल्योलङ्घनेनैव ममैतादृशं वैक्लव्यमिति प्रणिधानेन विदित्वा परमकारु
णिकं भगवन्तं सर्वकामदं तमेव तुष्टाव ।
 
ननु स्तुतिर्नाम गुणकथनं, तच्च गुणज्ञानाधीनम्, अज्ञातस तस्य
कथनासंभवातू, तथाच भगवतो गुणानामनन्तत्वेन ज्ञातुम शक्यत्वा-
त्कथं तत्कथनरूपा स्तुतिरनुरूपा भवेत्, अननुरूपकथनं चोपहा-
सायैवेति या शङ्का तद्पनोदनव्याजेन स्वस्यानौद्धत्यं दर्शयन्नेव
भगवन्तं स्तोतुमारभते—
 
महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।