This page has been fully proofread once and needs a second look.

कुसुम[^१]दशननामा सर्वगन्धर्वराजः
शिशुशशिधरमौलेर्देवदेवस्य दासः ।
स खलु निजमहिम्नो भ्रष्ट एवास्य रोषा-
त्स्तवनमिदमकार्षीद्दिव्यदिव्यं महिम्नः ॥ ३७ ॥
सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं
पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः ।
व्रजति शिवसमीपं किंनरैः स्तूयमानः
स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥ ३८ ॥
आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम् ।
अनौपम्यं मनोहारि शिवमीश्वरवर्णनम् ॥ ३९ ॥
इत्येषा वाङ्मयी पूजा श्रीमच्छंकरपादयोः ।
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥ ४० ॥
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर ।
यादृशोऽसि महादेव तादृशाय नमो नमः ॥ ४१ ॥
एककालं द्विकालं वा त्रिकालं य पठेन्नरः ।
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ४२ ॥
श्रीपुष्पदन्तमुखपङ्कजनिर्गतेन
स्तोत्रेण किल्बिषहरेण हरप्रियेण ।
कण्ठस्थितेन पठितेन समाहितेन
सुप्रीणितो भवति भूतपतिर्महेशः ॥ ४३ ॥
इति श्रीपुष्पदन्तविरचितं शिवमहिम्नस्तोत्रं संपूर्णम् ॥
 
[^१] महिम्नस्तुतेरेकत्रिंशच्लोका एव श्रीमधुसूदनसरस्वत्याख्ययतिवरैर्व्या-
ख्याताः । ततो द्वात्रिंशदादि षट्त्रिंशत्पर्यन्तं श्लोकान्संगृह्याग्रे व्याख्योपसंहारे
'इमे श्लोकाः स्तोत्रान्तर्गताः सुगमाश्चेति सर्वं भद्रं' इति लिखितमस्ति नाग्रे-
<flag>तनानिक्लोपटया</flag> तथापि लोकपाठमनुसृत्यास्माभिरत्र संगृहीतानीति शम्॥