This page has been fully proofread once and needs a second look.

अहरहरनवद्यं धूर्जटे: स्तोत्रमेत-
त्पठति परमभक्त्या शुद्धचित्त: पुमान्य: ।
स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र
प्रचुरतरधनायुः पुत्रवान्कीर्तिमांश्च ॥ ३४ ॥
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः ।
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥ ३५॥
दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः ।
महिम्नस्तवपाठस्य कलां नार्हन्ति षोडशीम् ॥३६॥
इमे (३२–३६) श्लोकाः स्तोत्रान्तर्गताः सुगमाश्चेति सर्वं भद्रम् ॥
हरिशंकरयोरभेदबोधो भवतु क्षुद्रधियामपीति यत्नात् ।
उभयार्थतया मयेदमुक्तं सुधियः साधुतयैव शोधयन्तु ॥ १ ॥
यत्नतो वक्रया रीत्या कर्तुं शक्यं विधान्तरम् ।
यद्यपीह तथाप्येष ऋजुरध्वा प्रदर्शितः ॥ २ ॥
श्लोकानुपात्तमिह न प्रसङ्गात्किंचिदीरितम् ।
श्लोकोपात्तमपि स्तोकैरक्षरैः प्रतिपादितम् ॥ ३ ॥
महिम्नाख्यस्तुतेर्व्याख्या प्रतिवाक्यं मनोहरा ।
इयं श्रीमद्गुरोः पादपद्मयोरर्पिता मया ॥ ४ ॥
टीकान्तरं कश्चन मन्दधीरितः सारं समुद्धृत्य करोति चेत्तदा ।
शिवस्य विष्णोर्द्विजगोसुपर्वणामपि द्विषद्भावमसौ प्रपद्यते ॥ ५ ॥
 
भूतिभूषितदेहाय द्विजराजेन राजते ।
एकात्मने नमो नित्यं हरये च हराय च ॥ ६ ॥
 
इति श्रीमत्परमहंसश्रीमद्विश्वेश्वरसरस्वतीचरणारविन्दमधुपश्रीमधु-
सुदनसरस्वतीविरचिता महिम्नस्तुतिव्याख्या संपूर्णा॥