This page has been fully proofread once and needs a second look.

मपि श्रवणमात्रेणापि वस्तुस्वभाव्यात्सुखविशेषमाधतीति ध्वन-
यितुं ज्ञापयितुं वाक्यपुष्पत्वेन निरूपितम् । तथा च वाक्या-
न्येव पुष्पाणि तैरुपहारः पूजार्थमञ्जलिस्तमित्यर्थः । किं कृत्वा
आधादित्यनेन हेतुना चकितं भीतं स्तुतेर्निवर्तमानं माममन्दी-
कृत्य न मन्दममन्दं कृत्वा । बलात्स्तुतौ प्रवर्त्येत्यर्थः । तथा चान्य-
मत्या प्रवृत्तस्य मम स्खलितेऽपि क्षन्तव्यमित्यभिप्रायः । इतिशब्देन
सूचितं भयकारणमाह - कृशेत्यादिना । कृशा अल्पा परिणतिः परि-
पाको यस्य तत्तथा । अल्पविषयमित्यर्थः । तादृशं मम चेतश्चित्तं
ज्ञानं वा । तथा क्लेशानामविद्यास्मितारागद्वेषाभिनिवेशानां वश्यमाय -
तम् । सर्वदा रागद्वेषादिदोषसहस्रकलुषितमित्यर्थः । क्लेशेनातिप्रयत्नेन
वश्यमिति वा तेन त्वद्गुणवर्णनेऽत्यन्तायोग्यमित्यर्थः । गुणानां सीमा
संख्यापरिणामयोरियत्ता तामुल्लङ्घयितुं शीलं यस्याः सा गुणसीमो-
ल्लङ्घिनी शश्वदृद्धिः नित्या विभूतिः । तेनैतादृशदुर्वासनासहस्रकलु -
षितमित्यल्पविषयं मम मनः क्व, अनन्ता नित्या तव परमा विभूतिर्वा
क्व इत्यत्यन्तासंभावना मम भयहेतुरित्यर्थः । एतदवधारणे च तव
भक्तिरेव कारणमिति भक्तेरत्यन्तासंभावितफलदानेऽपि सामर्थ्यं
दर्शयति । यस्मादेवं तस्मात्सर्वापराधानविगणय्य परमकारुणिकेन
त्वया त्वद्विषया भक्तिरेव ममोद्दीपनीयेति वाक्यतात्पर्यार्थः ॥३१॥
असितगिरिसमं स्यात्कज्जलं सिन्धुपात्रे
सुरतरुवरशाखा लेखनी पत्रमुर्वी ।
लिखति यदि गृहीत्वा शारदा सार्वकालं
तदपि तव गुणानामीश पारं न याति ॥३२॥
असुरसुरमुनीन्द्रैरचिंतस्येन्दुमौले-
र्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य ।
सकलगणवरिष्ठः पुष्पदन्ताभिधानो
रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार ॥ ३३ ॥