This page has been fully proofread once and needs a second look.

सुखनिमित्तम् । कृतशब्दोऽव्ययो निमित्तवाची । सत्वस्योद्रिक्तावुद्रेके
रजस्तमोभ्यामाधिक्ये स्थितायेत्यर्थाल्लभ्यते । 'सत्वोद्रेके' इति
वा पाठः । अथवा सत्वोद्रिक्तौ सत्यां जनानां सुखं करोतीति
जनसुखकृत्तस्मै । यद्वा सुखस्य कृतं करणम् । भावे क्तः । तस्मिन्
तन्निमित्तम् । एवं व्याख्याने प्रक्रमभङ्गदोषो न भवति पूर्वपर्याय -
द्वये उत्तरपर्याये च सप्तम्यन्तनिमित्तनिर्देशात् । मृडयति सुखयति
मृडो विष्णुस्तस्मै । पालनस्यैवोद्देश्यत्वात्क्रमभङ्गेण पश्चान्निर्देशः ।
एवं गुणत्रयोपाधीनत्वान्निर्गुणं प्रणमति । प्रमहसिपदे निस्स्रैगुण्ये शि-
वाय नमोनमः निर्गतं त्रैगुण्यं यस्मात्तन्निस्स्रैगुण्यं तस्मिन्पदे पद-
नीये तत्पदप्राप्तिनिमित्तम् । कीदृशे । प्रमहसि प्रकृष्टं माययानभिभूतं
महो ज्योतिर्यस्मिंस्तत्तथा । सर्वोत्तमप्रकाशरूपत्रिगुणशून्यमोक्षनि-
मित्तमित्यर्थः । शिवाय निस्रैगुण्यमङ्गलस्वरूपाय 'शिवमद्वैतं च-
तुर्थं मन्यन्ते' इति श्रुतेः । प्रमहसि पदे स्थितायेति वा । हरिपक्षे-
प्येवम् ॥ ३० ॥

एवमस्तुत्यरूपेणैव भगवन्तं स्तुत्वा स्वसौद्धत्यपरिहारं 'मम
त्वेतां वाणीम्' इत्यत्रोपक्रान्तमुपसंहरन्नाह -

कृशपरिणति चेतः क्लेशवश्यं क्व चेदं
क्व च तव गुणसीमोल्लङ्घिनी शश्वदृद्धिः ।
इति चकितममन्दीकृत्य मां भक्तिराधा-
द्वरद चरणयोस्ते वाक्यपुष्पोपहारम् ॥ ३१ ॥

हे वरद सर्वाभीष्टदेत्युपसंहारे योग्यं संबोधनम् । तव पाद-
योर्मद्वाक्यपुष्पोपहारं भक्तिराधात् त्वद्विषया रतिरर्पितवती । यथा
पुष्पाणि मधुकरेभ्यः स्वमकरन्दं प्रयच्छन्त्यन्येषामपि दूरात् गन्ध-
मात्रेण प्रमोदमादधति तथैतानि स्तुतिरूपाणि वाक्यानि भ-
क्तिरसिकेभ्यो भगवन्माहात्म्यवर्णनामृतरसं प्रयच्छन्त्यन्येषा-