This page has been fully proofread once and needs a second look.

तथाच श्रुति:-- 'दूरात्सुदूरे तदिहान्तिके च' 'अणोरणीयान्महतो
महीयान्' 'त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कु-
मारी । त्वं जीर्णो दण्डेनाञ्चसि त्वं जातो भवसि विश्वतोमुखः'
इत्यादि । तथा किंबहुना सर्वस्मै सर्वरूपाय तुभ्यं नमः । 'इदं सर्वं
यदयमात्मा' इति श्रुतेः । ननु तर्हि सर्वविकाराभिन्नत्वादिना-
शित्वप्रसङ्ग इत्याशङ्क्य, सर्वस्याध्यस्तत्वेन वास्तवभेदाभावात्सर्व
बाधाधिष्ठानत्वेन च श्रुतिषु सामानाधिकरण्येन व्यपदेशादद्विती-
यस्य ब्रह्मणो न विकारगन्धोऽपि संभाव्यत इत्यभिप्रायेण नम-
स्कुर्वन्नाह – तदिदमिति सर्वाय च नम इति । तत्परोक्षमिदमपरो-
क्षमित्यनेन प्रकारेणानिर्वाच्यं सर्वं यत्र स तदिदमितिसर्वस्तस्मै ।
बहुव्रीहावन्यपदार्थप्रधानत्वान्न सर्वनामता । तेन सर्वाधिष्ठानभूताय
तुभ्यं नम इत्यर्थः ॥ हरिपक्षेप्येवम् । केवलं संबोधनत्रयमन्यथा
व्याख्येयम् । प्रियाणि वैषयिकसुखानि वैराग्योद्बोधेन दुनोति
नाशयतीति प्रियदवः । तथाच स्मरो वासना तं हरति स्वभक्त्यु-
द्वेकेणेति स्मरहरः । तथा त्रयाणां लोकानां नयनवत्सर्वार्थावभासक-
स्त्रिनयन इति प्रागपि व्याख्यातम् ॥ २९ ॥
अधुना पूर्वोक्तसर्वार्थसंक्षेपेण नमस्कुर्वन्स्तुतिमुपसंहरति-
बहलरजसे विश्वोत्पत्तौ भवाय नमोनमः
प्रचलतमसे तत्संहारे हराय नमोनमः ।
जनसुखकृते सत्वोद्रिक्तौ मृडाय नमोनमः
प्रमहसिपदे निस्त्रैगुण्ये शिवाय नमोनमः ॥ ३० ॥
बहलेति । विश्वोत्पत्तौ विश्वोत्पत्तिनिमित्तं बहलं तमःसत्वा-
भ्यामधिकं रजो यस्य तस्मै उद्रिक्तरजसे भवत्यस्माज्जगदिति भवो
ब्रह्ममूर्तिस्तस्मै तुभ्यं नमोनमः । तथा तत्संहारे तस्य विश्वस्य संहा-
रनिमित्तं प्रबलं सत्वरजोभ्यामनभिभूतमुद्रिक्तं तमो यस्य तस्मै
हरतीति हरो रुद्रमूर्तिस्तस्मै नमोनमः । तथा जनानां सुखकृते