This page has been fully proofread once and needs a second look.

५८
 
महिम्नस्तोत्रम् ।
 

 
इतिशब्दः समाप्त्यर्थः । यस्य च नाममात्रमपि सर्वपुरुषार्थप्रदं स
पुनः स्वयं कीदृश इति भक्त्युद्रेकेण प्रणमति । प्रियायेत्यादिना ।
अस्मै स्वप्रकाशचैतन्यरूपत्वेन सर्वदा परोक्षाय भवते महेश्वराय ।
कीदृशाय । धाम्ने सर्वेषां शरणभूताय चिद्रूपायेति वा । यो-
ग्यमुपचारं किमपि कर्तुमशक्नुवन्नहं केवलं प्रविहितनमस्योऽस्मि
प्रकर्षेण वाङ्मनःकायव्यापारातिशयेन विहिता नमस्साया नमस्क्रिया
येन स तथा । ( केवलं तुभ्यं कृतनमस्कारो भवामीत्यर्थः । )
प्रणिहितेति पाठेऽप्येवमेवार्थः ॥ हरिपक्षेऽप्येवम् । भवादीनां च
हरिनामत्वं योगवृत्त्या संभवत्येव सहस्रनामस्तुतिपठितत्वाच्चेति
द्रष्टव्यम् । अथवा यदिदमभिधानाष्टकं अमुष्मिन्प्रत्येकं देवश्रुतिरपि
देवशब्दोऽपि प्रविचरति संबद्धो भवति । तथा च भवदेव इत्यादिरूपं
तव रहस्यनामाष्टकमित्यर्थः । तथाच भवस्य रुद्रसास्यापि देव आराध्य
इत्यर्थः । एवमन्येष्वपि नामसु द्रष्टव्यम् ॥ २८ ॥

एवं जातभक्त्युदेद्रेको नमस्कार
मेवानुवर्तयन्दुरूह महिमत्वेन
भगवन्तं स्तौति –
 
नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो
8)/ नमः सर्वस्मै ते तदिदमितिसर्वाय च नमः ॥ २९ ॥

नम इति । हे प्रियदव अभीष्ट निर्जनवन विहार, ते तुभ्यं नेदि-
ष्ठायात्यन्तनिकटवर्तिने, दविष्ठायात्यन्तदूरवर्तिने च नमोनमः ।
हे स्मरहर कामान्तक, क्षोदिष्ठाय क्षुद्रतराय महिष्ठाय महत्तराय
च तुभ्यं नमोनमः । तथा हे त्रिनयन त्रिनेत्र, वर्षिष्ठाय अतिवृद्धाय
वृद्धतरायेति वा यविष्ठाय युवतमाय च तुभ्यं नमोनमः । एवम-
त्यन्तविरुद्धस्वभावस्याल्पबुद्धिभिः कथमपि स्वरूपनिर्णयासंभवात्स-
र्वदा नमस्कार एव करणीय इति प्रदर्शनाय नमस्कारशब्दावृत्तिः ।
 
0. Late Pt. Manmohan Shastri Collection Jammu. Digitized by eGang