This page has not been fully proofread.

मधुसूदनीव्याख्यासहितम् ।
 
निर्विकल्पकबोधोत्पत्तिस्तथा प्रपञ्चितमस्माभिर्वेदान्त कल्पलतिकाया-
मित्युपरम्यते ॥ हरिपक्षेप्येवम् ॥ २७ ॥
 
एवं तावद्वितीय ब्रह्मवाचकत्वेन प्रणव उपन्यस्तः, एतस चार्था-
नुसंधानं जपश्च समाधिसाधनत्वेन पतञ्जलिना सूत्रितः 'समाधिसि-
द्विरीश्वरप्रणिधानात्' इति । 'ईश्वरप्रणिधानाद्वा' इति सूत्रान्तरं 'तस्य-
वाचकः प्रणवः' 'तज्जपस्तदर्थभावनम्' इति सूत्राभ्यां प्रणवजपस
प्रणिधानशब्दार्थत्वेन व्याख्यानात् । श्रुतौ च 'एतदालम्बनं श्रेष्ठमे-
तदालम्बनं परम् । एतदालम्बनं ज्ञात्वा यो यदिच्छति तस्य तत् ॥'
इत्यादिना तस्य सर्वपुमर्थहेतुत्वमुक्तम् । एतस चातिदुरूहार्थत्वेन
स्त्रीशूद्राद्यनर्हत्वेन चासाधारणत्वात्सर्वसाधारणानि प्रसिद्धानि भग-
वद्वाचकानि पदानि जपार्थत्वेन वदन् स्तौति--
भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहां-
स्तथा भीमेशानाविति यदभिधानाष्टकमिदम् ।
अमुष्मिन्प्रत्येकं प्रविचरति देव श्रुतिरपि से
Sami
प्रियायास्मै धाम्ने प्रविहितनमयोऽस्मि भवते २८
 
भव इत्यादि । हे शरणद, हे देव, इदं यदभिधानाष्टकं
नामाष्टकं अमुष्मिन्नभिधानाष्टके विषये प्रत्येकमेकैकशः । प्रतिना-
मेति यावत् । श्रुतिर्वेदः प्रविचरति प्रकर्षेण बोधकतया चरति ।
वर्तत इत्यर्थः । अपिशब्दात्स्मृतिपुराणागमा दिकमपि । अथवा
प्रणव इवामुष्मिन्नपि श्रुतिः प्रविचरतीति योज्यम् । यद्यप्यष्टाध्याया-
र्थकाण्डे वह्निनामत्वेनैतानि समाम्नातानि तथापि वहेर्भगवद्वि-
भूतित्वात्तन्नामत्वेऽपि न भगवन्नामत्वव्याघातः । यद्वा अमुष्मिन्ना-
माष्टके देवानां ब्रह्मादीनामपि श्रुतिः श्रवणेन्द्रियं प्रविचरति साव-
धानतया वर्तते । देवा अपि त्वन्नामश्रवणोत्सुकाः किं पुनरन्य
इत्यर्थः । किं तन्नामाष्टकमित्यत आह । भव इत्यादि । महता
 
0. Later Manmohan Shasth Collection Jammu. Digitized by eGang
 
inवत इति सहमहान्महादेवः तथैवागमप्रसिद्धेः ।