This page has been fully proofread once and needs a second look.

महिम्नस्तोत्रम् ।
 
त्रयाभिमानिविलक्षणं तव धाम स्वरूपं अखण्डचैतन्यात्मकम् ।
तवेति राहोः शिर इतिवद्भेदोपचारेण षष्ठी । अणुभिर्ध्वनि-
भिररुन्धानं स्वत उच्चारयितुमशक्यैरर्धमात्रायाः श्रुतोचारणशेन
निष्पाद्यमानैः सूक्ष्मशब्दैरवबोधं कुर्वत्प्रापयत् । समुदायशक्त्या
बोधयदिति यावत् । अर्धमात्राया एकत्वेऽपि ध्वनिभिरिति
बहुवचनं प्लुतोच्चारणे चिरकालमनुवृत्तायास्तस्या अनेकध्वनिरू-
पत्वान्न विरुद्धम् । ध्वनीनां चाणुत्वाणुतरत्वाणुतमत्वादिकं गुरूपदे-
शादधिगन्तव्यम् । तथाचार्घमात्रारूपेण समस्तमोमिति पदं समुदाय -
शक्त्या सर्वविकारातीतं तुरीयं स्वरूपमभिधत् समस्तं त्वां गृणाती-
ति संबन्धः । एवं च पदार्थाभिधानमुखेनाखण्डवाक्यार्थसिद्धिरर्था-
दुक्ता । तथाहि स्थूलप्रपञ्चोपहित चैतन्यमकारार्थः, तत्र स्थूल-
ग्प्रपञ्चांशत्यागेन केवलचैतन्यमकारेण लक्ष्यते । तथा सूक्ष्मप्रपञ्चो -
पहित चैतन्यमुकारार्थः, तत्र सूक्ष्मप्रपञ्चांशत्यागेनोकारेणोपलक्ष्यते ।
तथा स्थूलसूक्ष्मप्रपञ्चद्वयकारणीभूतमायोपहितचैतन्यं मकारार्थः,
तादृशमायांशपरित्यागेन मकारेण चैतन्यमात्रं लक्ष्यते । एवं तुरी-
यत्वसर्वानुगत्वोपहितचैतन्यमर्धमात्रार्थः तदुपाधिपरित्यागेनार्ध-
मात्रया चैतन्यमात्रं लक्ष्यते । एवं चतुर्णाणां सामानाधिकरण्यादभेदबो-
घे परिपूर्णमद्वितीयचैतन्यमात्रमेव सर्वद्वैतोपमर्देन सिद्धं भवति । लक्ष-
णया परित्यक्तानां चोपाधीनां मायात त्कार्यत्वेन मिथ्यात्वात्, स्वरूप -
बोधेन च स्वरूपाज्ञान।नात्मकमायातत्कार्यनिवृत्तेर्न पृथगवस्थानप्रसङ्गः।
नह्यधिष्ठानसाक्षात्कारानन्तरमापतध्यस्तमुपलभ्यते त्रय्यादीनां
वाक्यार्थबोधानुपयोगेप्युपासनायामुपयोगात्पृथगभिधानं द्रष्टव्यम् ।
तस्मात्सर्येवं द्वितीयशून्यं प्रत्यगभिन्नं ब्रह्म प्रणववाक्यार्थ इति सिद्धम् ।
एतच्च सर्वेषां तत्त्वमस्यादिमहावाक्यानामुपलक्षणम् । तेषामपि प्रत्य-
गभिन्नपरिपूर्णाद्वितीयब्रह्मप्रतिपादकत्वात् । यथा च शब्दादपरोक्ष-
0. Late Pt. Manmohan Shastri Collection Jammu. Digitized by eGang