This page has not been fully proofread.


 
मधुसूदनीव्याख्यासहितम्
 
दायशक्त्या पङ्कजादेरिव पदत्वमुपपन्नं योगरूढिस्वीकारात् ।
तस्वीकारेऽपि 'सुप्तिङन्तं पदम्' इति वैयाकरणपरिभाषया
पदत्वं 'कृत्तद्धितसमासाश्च' इत्यनेन समासस्यापि प्रातिपदिकसं-
ज्ञाविधानात्सुबन्तत्वमुपपन्नमेव । कीदृशमोमिति पदम् । समस्तं
अकारोकारमकाराख्यपदत्रयकर्मधारय समासनिष्पन्नम् । एतेन
समुदायशक्तिरुक्ता । तथा व्यस्तं भिन्नम् । अकार-उकार - मकारा-
ख्यखतन्त्रपत्रयात्मकमित्यर्थः । एतेनावयवशक्तिरुक्ता । इदं च
पदद्वयमभिधेयेऽपि योज्यम् । त्वां कीदृशम् । समस्तं सर्वात्मकं,
तथा व्यस्तमध्यात्माधिदैवादिभेदेन भिन्नतया प्रतीयमानम् ।
तथाच व्यस्तमोमिति पदं व्यस्तं त्वां गृणाति, समस्तमोमिति
पदं समस्तं त्वां गृणातीत्युक्तं भवति । एतदेव दर्शयति – त्रयी-
मित्यादिना । त्रयीं देवत्रयं, तिस्रो वृत्तयो जाग्रत्स्वप्नसुपुप्याख्या
अन्तःकरणस्यावस्थाः । एतच्च विश्वतैजसप्राज्ञानामप्युपलक्षणम् ।
त्रिभुवनं भूर्भुवःस्वः । एतदपि विराढिरण्यगर्भाव्याकृतानामुपल-
क्षणम् । त्रयः सुराः ब्रह्मविष्णुमहेश्वराः । एतच्च सृष्टिस्थितिप्रलया-
नामप्युपलक्षणम् । एतच सर्वमकाराद्यैस्त्रिभिर्वर्णैरभिद्धद्भिधावृ-
च्या प्रतिपादयद्व्यस्तमित्यर्थः । एवमत्र प्रकारः । ऋग्वेदो जाग्रदव-
स्था भूर्लोको ब्रह्मा चेति चतुष्टयमकारार्थः । तथा यजुर्वेदः
स्वप्नावस्था भुवर्लोको विष्णुश्चेति चतुष्टयमुकारार्थः । तथा साम-
वेदः सुषुप्त्यवस्था स्वर्लोको महेश्वरश्चेति चतुष्टयं मकारार्थः । इदं
माण्डूक्यनृसिंहतापनीयाथर्वशिखादावन्यदप्युक्तं गुरूपदेशाज्ज्ञात-
व्यम् । अतिरहसत्वान्नेह सविशेषमुच्यते । तस्मादध्यात्माधि-
तत्सर्वमत्रोपसं-
दैवाधिभूताधिबेदाधियज्ञादियावदन्यत्रोक्तमस्ति
 
हर्तव्यं न्यूनतापरिहाराय । तथाच सर्वप्रपञ्चाकारेण व्यस्तं त्वां
अकारोकारमकारैर्व्यस्तमोमिति पदमभिदधत्त्वां गृणावीति सं-
-O. Laty Pt. Manaphaतीविठ्ठात्ति आई शिकायतीत Bigitizअवस्थy eGang
 
Co