This page has been fully proofread once and needs a second look.

मधुसूदनीव्याख्यासहितम् ।
 
किमुचितं ज्ञात्वा त्वयेदमनुचितमुच्यत इत्यत आह । नेत्यादिना ।
हि यस्मात् इह जगति तत्तत्त्वं वस्तु वयं न जानीमो यद्वस्तु त्वं
न भवसि । त्वद्भिन्नमिति यावत् । अत्र स्वस्य प्रमाणकौशलेनो-
त्कर्षं ख्यापयितुं विद्म इति बहुवचनम् । वयं तु त्वदभिन्नत्वेनैव
युक्त्या सर्वं जानीम इत्यर्थः । एवं च तव सर्वात्मकत्वादर्कादि-
विशेषरूपाभिधानं व्यर्थमेव । तथा च श्रुतिः - 'इन्द्रं मित्रं वरुण-
मग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद्विप्रा बहुधा
वदन्त्यग्निं यमं मातरिश्वानमाहुः' 'एष उ ह्येव सर्वे देवाः' इति च
सर्वदेवभेदं वारयति । नहि सदतिरिक्तं किंचिदुपलभ्यते सद्रूपश्चा-
त्मा त्वमेवेति तर्केणापि सिद्धमद्वैतम् । नच सर्वस्य ब्रह्मरूपत्वे घटा-
दिज्ञानस्यापि ब्रह्मज्ञानस्वरूपत्वात्ततोऽपि मोक्षप्रसङ्ग इति वाच्यम् ।
अन्यानुपरक्तचैतन्यभावस्यैव मोक्षहेतुत्वात् । घटाद्याकारज्ञानस्य
चाविद्यापरिकल्पितान्योपरक्तचैतन्यविषयत्वात् । अन्योपरक्तचैत-
न्यस्य च सद्रूपेण चक्षुरादिविषयत्वेऽप्यन्यानुपरक्तसैतस्य न वे-
दान्तवाक्यमात्रविषयत्वव्याघातः । ननु सर्वस्य सन्मात्रत्वेऽपि ना-
द्वैतसिद्धिः । भिन्नानामपि सत्ताजातियोगेन सदाकारबुद्धिविषयत्व-
संभवात् । अन्यथा द्रव्यगुणकर्मादिभेदव्यवहारोऽपि न स्यादिति
चेन्न । द्रव्यं सद्गुणः सन्नित्यादिप्रतीतेर्द्रव्यत्वादिधर्मविशिष्टैकसन्मा-
त्रविषयत्वमेव न तु द्रव्यादिधर्मिषु भिन्नेषु सत्ताख्यधर्मविषयत्वम्,
धर्मिकल्पनातो धर्मकल्पनाया लघुत्वात् । एकस्मिन्नसति च सर्वा-
भिन्ने मायिकनानात्वप्रतीत्युपपत्तेः । द्वौ चन्द्रावित्यत्रेव न पारमा-
र्थिकभेदकल्पनावकाशः । तथाचायं प्रयोगः । अयं द्रव्यगुणादिभे-
दव्यवहारः सर्वभेदानुगतजात्यात्मकैकवस्तुमात्रावलम्बनः । भेदव्य-
वहारत्वाद्द्विचन्द्रभेव्यवहारवदिति । तस्मान्नाचेतनं सचेतनं वा
किंचिदपि परमात्मनो भिन्नमुपपद्यते । 'स एष इह प्रविष्टः' 'अ-
नेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि' इत्यादिश्रुत्या