2023-02-22 18:27:46 by shivjun1685
This page has been fully proofread once and needs a second look.
महिम्नस्तोत्रम् ।
णाप्यन्ये परमाह्लादं बिभ्रति, तत्स्वयं परमाह्लादरूपं भवतीति
किमु वक्तव्यमित्युक्तम् । 'विज्ञानमानन्दं ब्रह्म' 'आनन्दो ब्रह्मेति
व्यजानात्' 'एष एव परम आनन्दः' 'यो वै भूमा तत्सुखं' 'कोह्यो-
वान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्' इत्याद्याः
श्रुतयश्चास्मिन्नर्थे प्रमाणत्वेन द्रष्टव्याः ॥ हरिपक्षेऽप्येवम् ॥ २५॥
एवमद्वितीये ब्रह्मणि परमानन्दरूपे सर्वात्मके विद्वदनुभवरूपं
प्रत्यक्षं प्रमाणमुक्तम् । अधुना तस्यैवाद्वितीयत्वं तर्केणापि साध-
यन्स्तौति—
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह-
स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।
परिच्छिन्नामेवं त्वयि परिणता विभ्रतु गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥२६॥
त्वमर्क इति । हे वरद, परिणताः परिपक्वबुद्धयस्त्वयि विषये
एवं परिच्छिन्नामेवंप्रकारेण परिच्छिन्नत्वेन त्वां प्रतिपादयन्तीं गिरं
वाचं बिभ्रतु धारयन्तु नाम । केन रूपेण परिच्छिन्नमित्यत आह ।
त्वमर्क इत्यादिना । अत्र सर्वत्र त्वंशब्दो वाक्यालंकारार्थः । उश-
ब्दोऽवधारणे त्वमित्यनेन संबध्यते । चशब्दः समुच्चये । इतिशब्दः
समाप्तौ । अर्कादयः प्रसिद्धाः । आत्मा क्षेत्रज्ञो यजमानरूपः ।
एते चाष्टौ श्रीरुद्रमूर्तित्वेनागमप्रसिद्धा वक्ष्यमाणभवादिनामाष्टक-
सहिताश्चतुर्थ्यन्ता नमोन्ता अष्टौ मन्त्रा भवन्ति ते गुरूपदेशेन ज्ञा-
तव्याः । एतदष्टमूर्तित्वं चान्यत्राप्युक्तम्– 'क्षितिहुतवहक्षेत्रज्ञाम्भ:-
प्रभञ्जनचन्द्रमस्तपनवियदित्यष्टौ मूर्तीर्नमो भव बिभ्रते' इति ।
तेन सर्वात्मकमपि त्वामर्काद्यष्टमात्रमूर्ति वदन्तीत्यर्थः । अत्रापरि-
णता इत्यस्मिन्नर्थे परिणता इति सोपहासं विभ्रत्विति लोटाननुम-
तावप्यनुमतिप्रकाशनात्। तेन सर्वथानुचितमेवैतदित्यर्थः। बर्हि