This page has been fully proofread once and needs a second look.

मधुसूदनी व्याख्यासहितम् । ५१
 
प्यतिशयः सूचितः । यद्यपि ब्रह्मानन्दस्य सर्वातिशयिनो न कोऽपि
दृष्टान्तोऽस्ति तथापीषत्साम्येनापि लोकानां बुद्धिदार्ढ्यायैवमुक्तम् ।
एतादृशब्रह्मानन्दानुभवस्थासाधारणं कारणमाह । मन इत्यादिना ।
चित्ते हृदयाम्बुजे मनः संकल्पविकल्पात्मकमवधाय निरुध्य । वृ-
त्तिशून्यं कृत्वेत्यर्थः । कीदृशं मनः । प्रत्यक् चक्षुरादीन्द्रियद्वारा
बहिर्विषयप्रवृत्तिप्रतिकूलतया अन्तर्मुखतयैवाञ्चतीति प्रत्यक् । की-
दृशा यमिनः । सविधं सप्रकारं यथा स्यात्तथा आत्तमरुतः । शास्त्रो-
पदिष्टमार्गेणैव कृतप्राणायामा इत्यर्थः । अत्र सविधमित्यनेन यम-
नियमादिसाधनानि सूच्यन्ते । आत्तमरुत इत्यनेन चतुर्थः कु-
म्भकः । विषयेभ्य इ<fix>न्द्रि</fix>याणां निवर्तनरूपः प्रत्याहारः प्रत्यक्पदेन
सूचितः । चित्त इत्यनेन हृदयाम्बुजाख्यदेशसंब[^१]न्धात्समूहावलम्ब-
नाख्या धारणोक्ता । अवधायेत्यनेन ध्यानसमाधी । तदुक्तं भगवता
पतञ्जलिना – 'देशसंबन्धश्चित्तस्य धारणा । तत्र प्रत्ययैकतानता ध्या-
नम् । तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः' इति । चि-
त्तस्य वशीकरणार्थं मूलाधारस्वाधिष्ठानमणिपूरकानाहतविशुद्ध्या-
ज्ञाख्यचक्राणामन्यतमे देशेऽवस्थापनं धारणेत्युच्यते । प्रत्ययस्य ए-
कतानता (ए[^२]कविषयप्रवणता) विषयः प्रवाहः । स च द्विविधः । वि-
च्छिद्यविच्छिद्य जायमानः संततश्चेति । तावुभौ क्रमेण ध्यानसमाधी
भवतः । एतेनाष्टाङ्गयोगपरिपाको ब्रह्मसाक्षात्कारहेतुर्निदिध्यासन-
रूपत्वेनोक्तः । एवं ब्रह्मानन्दानुभवस्य कारणमुक्त्वा कार्यमाह ।
प्रहृष्यद्रोमाणः प्रकर्षेण पुलकिताङ्गाः । तथा प्रमदसलिलोत्सङ्गि-
तदृशः हर्षाश्रुपूर्णनेत्राः । एतदुभयं च यमिनामानन्दानुभवानुमाने
लिङ्गमुक्तम् । अत्र प्रशब्देनोत्सङ्गितशब्देन च लौकिकसुखापे-
क्षयाऽतिशयविशेषो व्यज्यते । यस्य च तत्त्वस्यालोकनमात्रे-
 
[^] 'संबन्धद्वारेण धारणोक्ता' इति पाठः ।
[^
] 'एकतानतैकविषयः' इति पाठः।