This page has been fully proofread once and needs a second look.

५० महिम्नस्तोत्रम् ।
 
सर्वश्रुतिस्मृतितात्पर्यविषयत्वेन सत्यत्वात्, सर्वस्यापि प्रपञ्चस स्व-
प्नवन्मिथ्यात्वात् । तस्मान्निर्गुणब्रह्मनिरूपणायोत्तरग्रन्थारम्भः । तत्र
पूर्वश्लोके त्वं परमं मङ्गलमसीत्युक्तम् । तत्रैवमाशङ्क्यते । मङ्गलं
हि सुखम् । न चेश्वरस्य सुखखरूपत्वं संभवति, सुखस्य जन्यत्वा-
द्गुणत्वाच्च, ईश्वरस्य नित्यत्वादद्रव्यत्वाच्च । नित्यज्ञानेच्छाप्रयत्नवा-
नीश्वरो न सुखरूपो नापि सुखाश्रय इति तार्किकाः । क्लेशकर्मवि-
पाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरश्चितिरूपो न सुखरूप इति
पातञ्जलाः । तदेवं नाद्वितीय ईश्वरो नापि सुखस्वरूप इत्याशङ्क्य
तस्याद्वितीयपरमानन्दरूपत्वे विद्वदनुभवरूपं प्रत्यक्षं प्रमाणं वद-
न्स्तौति -
 
मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः
प्रहृष्यद्रोमाणः प्रमदससिलोत्सङ्गितदृशः ।
यदालोक्याह्लादं ह्रद इव निमज्ज्यामृतमये
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान् २५
 
मन इति । हे वरद, यत्किमपि तत्त्वं इदंतया वक्तुमशक्यं
सत्यज्ञानानन्तानन्दात्मकं वस्त्वालोक्य वेदान्तवाक्यजन्ययाऽख-
ण्डाकारवृत्त्याऽपरोक्षीकृत्य यमिनः शमादिसाधनसंपन्नाः परमहंसाः
अन्तराह्लादंं बाह्यसुखविलक्षणं निरतिशयमुखं दधति पूर्वं विद्यमा
नमेव धारयन्ति न तूत्पादयन्ति नित्यत्वात् । तत्तत्वं किल
भवानिति । किलेति प्रसिद्धौ । सत्यज्ञानानन्तानन्दात्मकत्वेनैव श्रु -
तिषु प्रसिद्धो भवान्न तार्किकाद्युक्तप्रकारः । अतस्त्वं कथं परमं
मङ्गलं न भवसीति वाक्यशेषः । तत्राह्लादस्य निरतियत्वं द-
र्शयितुं दृष्टान्तमाह । अमृतमये ह्रदे निमज्ज्येव । यस्य खलु लेश-
मात्रमपि स्पृष्ट्वा सकलसंतापोपशमेन सुखिनो भवन्ति, किमुत व-
क्तव्यं तस्य निमज्जनरूपसर्वाङ्गसंयोगेनेति कारणातिशयात्कार्यस्या -