This page has been fully proofread once and needs a second look.

४८ महिम्नस्तोत्रम् ।
 
विमोचनार्थं सज्जीकृतकोदण्डं त्वामर्धघटनादेवमप्ययं यदि मद-
धीनो न भवेत्तदा कथमेतादृशदुष्करकर्माणि मामुद्दिश्य कुर्यादिति
भ्रमेण स्त्रीसक्तमिव कल्पयतीत्यर्थः । शेषं पूर्ववत् ॥ २३ ॥
अथ स्वयममङ्गलशीलतया क्रीडन्नपि भक्तानां मङ्गलमेव द -
दासि, स्वयममङ्गलशीलानामपि भक्तानां त्वमेव मङ्गलमसीति च
वदन् शंकरनारायणौ स्तौति –
 
स्मशानेष्वाक्रीडा मरहर पिशाचा: सहचरा-
श्चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः ।
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तॄणां वरद परमं मङ्गलमसि ॥ २४ ॥
 
स्मशानेति । हे स्मरहर, हे वरद, तवाखिलमपि शीलं सर्वमपि
चरितं एवंप्रकारेणामङ्गल्यं मङ्गलविपरीतं भवतु नाम । किं नस्तेन
निरूपितेनेत्यर्थः । तथापि स्वयममङ्गलशीलोऽपि स्मर्तॄणां तव
स्मरणकर्तॄणां त्वं परमं मङ्गलमेवासि निरतिशयं कल्याणमेव भ-
वसि । तेनामङ्गलशीलोऽयं रुद्रो न मङ्गलकामैः सेवनीय इति
भ्रमं परिहृत्य मनोवाक्कायप्रणिधानैः सर्वदा सर्वैः सेवनीयोऽसी-
त्यर्थः । एवंपदसूचितममङ्गल्यं शीलमेव दर्शयति । स्मशानेष्वि-
त्यादि । स्मशानेषु शवशयनेष्वासमन्तात्केलिः, पिशाचाः प्रेताः
सहायाः, चिताभस्म शवदाहस्थं भस्माङ्गलेपोऽङ्गरागसाधनम्, नृक-
रोटी मनुष्य शिरोस्थिसमूहः स्रङ्माला । अपिशव्दादन्यदप्यार्द्रचर्मादि ॥
हरिपक्षे तु । हे वरद, तव स्मर्तॄणाममङ्गल्यं शीलं भवतु नाम,
तथापि तेषां त्वमेव परमं मङ्गलमसीत्यर्थः । तथाच गीतासु -
'अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः
सम्यग्व्यवसितो हि सः' इति । अथवा तव नामस्मर्तॄणामिति
योज्यम् । नाममात्रं स्मरतां परनं मङ्गलमसि त्वां स्मरतां तु किमु वा-