This page has been fully proofread once and needs a second look.

मधुसूदनीव्याख्यासहितम् । ४७
 
मामुद्दिश्य तपः कृतवती विरहदुःखं मा प्राप्नोत्विति करुणामात्रेण
देहार्धघटनात् त्वया स्वशरीरार्धेऽवस्थापनाद्धेतोर्भ्रमबीजात् यदि
त्वां सर्वयोगिनां वरं स्त्रैणं यद्ययं मदधीनो न भवेत्कथं मां स्व-
शरीरार्धे स्थापयेदिति भ्रान्त्या स्त्रीसक्तं यद्यवैति विशेषादर्शनात्कल्प-
यति तर्हि तदद्धा युक्तमेव तस्याः । अयुक्तस्यापि युक्तत्वे हेतुमाह ।
बतेत्यादि । हे वरद, अतिदुर्लभमपि स्वदेहार्धं दत्तमिति वरदेति
योग्यं संबोधनम् । बत अहो, युवतयस्तरुण्य: मुग्धा अतत्त्वज्ञाः ।
स्वभावत एवेति शेषः । तथा च सहजानां युवतविभूषणानां
प्रधानं मौग्ध्यमनुकुर्वन्त्याः स्वरूपतश्चितिरूपाया अपि देव्या मि -
थ्याज्ञानं युक्तमित्यर्थः ॥ हरिपक्षे तु । हे अर्धघटनादव, घटनाया
अर्धमित्यर्धघटना अर्धपिप्पलीवत् । तस्या दवो वनवह्निः । दाहक
इति यावत् । सीतारूपाया लक्ष्म्याः रामरूपेणोचितात्संयोगात्स्वे-
च्छयाऽर्धसंभोगं दत्त्वाऽविप्रलम्भं दत्तवानसीत्यर्थः । सा पूर्वश्लो-
कोक्ता देवी सीतारूपा लक्ष्मीः । कीदृशी । यमनिरतदेहा अत्यन्त -
पतिव्रता । तथा पुरमथनपुष्पा पुरस्य शरीरस्य मथनानि पीडकानि
पुष्पाणि यस्याः सा तथा । पुष्पाणामपि स्प[^१]र्शासहा । अतिसुकुमा-
राङ्गीत्यर्थः । त्वां श्रीरामरूपं यदि स्त्रैणमवैत्य[^२]वगच्छति तदद्धेत्या-
दिपूर्ववत् । त्वां कीदृशम् । स्वलावण्याशं स्वकीयं लावण्यमत्र
शौर्यादिगुणकृतं सौन्दर्यं तस्मिन्नाशा यस्य स स्वलावण्याशस्तम् ।
सीताया अनुद्धरणात्स्वस्य शौर्यादिग्रसिद्धिर्गच्छेदिति स्वकीर्तिर-
क्षार्थिनमित्यर्थः । अत एव धृतधनुषं सज्जीकृतकोदण्डम् । इदमेकं
भ्रमबीजमुक्तम् । भ्रमवीजान्तरमाह । अह्नाय तृणवत्पुरः प्लुष्टं
दृष्ट्वा शीघ्रमेव तृणस्येव पुरो लङ्कायाः प्लुष्टं दाहम् । भावे क्तः ।
तथा युधं युद्धमपि दृष्ट्वा । आयुधशब्दस्य शस्त्रे युद्धे चानुशासनात् ।
तथा च स्वकीर्तिरक्षार्थमत्यन्तपतिव्रतायाश्च देव्याः कारुण्येन क्लेश-
 
<flag>१. रतिः' इति पाठः ।</flag> २ 'मेति प्रत्येति' इति पाठः ।