This page has been fully proofread once and needs a second look.

४६ महिम्नस्तोत्रम् ।
 
मिच्छुम् । तथा स्वां दुहितरमयोनिजां कन्यां सीतां ऋश्यस्य
वपुषा विचित्रमृगशरीरेण रिरमयिषुं प्रमोदयितुमिच्छुम् । विचि-
त्रमृगरूपं मां दृष्ट्वा सीता स्त्रीस्वभावादतिमुग्धा मच्चर्मग्रहणार्थं श्री -
रामं प्रेरयिष्यति । ततो रामे बहुदूरं मयाऽपसारिते लक्ष्मणे च
तदुद्देशार्थं गते एकाकिनीं सीतां रावणः सुखेन हरिष्यतीत्यभि-
प्रायेण धृतविचित्रमृगशरीरमित्यर्थः । अत एव बाणेन सपत्रा-
कृतत्वाद्दिवं परलोकं यातम् । मृतमित्यर्थः । अमुं मृतमपि त्रसन्त-
मद्यापि तव मृगव्याधरभसो न त्यजतीत्युत्प्रेक्षारूपो ध्वनिः । शेषं
पूर्ववत् ॥ २२ ॥
परमवशिनां वरावपि श्रीराममहादेवौ लक्ष्मीपार्वत्यनुकम्पया
स्त्रैणमिवात्मानं दर्शयत इति प्रतिपादयन्स्तौति —
 
स्वलावण्याशंसाधृतधनुषमह्नाय तृणव-
त्पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।
यदि स्त्रैणं देवी यमनिरत देहार्धघटना-
दवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ २३ ॥
 
स्वलावण्येति । हे पुरमथन, हे यमनिरत, यमनियमासना-
द्यष्टाङ्गयोगपरायण । एतेन जितेन्द्रियत्वमुक्तम् । पुष्पायुधं कामं
त्वया तृणवत्तृणमिव अह्नाय शीघ्रं प्लष्टं दुग्धं पुरः साक्षादेवाव्यव-
धानेन दृष्ट्वा चाक्षुषज्ञानविषयीकृत्य । कीदृशं पुष्पायुधम् । स्व-
लावण्याशंसाधृतधनुषं स्वस्याः पार्वत्याः यल्लावण्यं सौन्दर्यातिश-
यस्तद्विषया आशंसा परमयोगिनमपि श्रीरुद्रमस्याः सौन्दर्यातिश-
येन वशीकरिष्यामीति या प्रत्याशा तया निमित्तभूतया घृतं ध -
नुर्येनेति तथा तम् । एतेन स्वलावण्यातिशयस्यापि श्रीरुद्र विषये-
ऽकिंचित्करत्वमुक्तम् । तथा चैवं स्खलावण्यवैयर्थ्यं पुष्पायुधस्य
तृणवद्दाहं च स्वयं साक्षात्कृत्वापि देवी पार्वती इयं चिरकालं