This page has been fully proofread once and needs a second look.

मधुसूदनीव्याख्यासहितम् ।
 
शेष एवार्द्रानक्षत्ररूपेण परिणत इति पुराणान्तरप्रसिद्ध्या द्रष्टव्यम् ।
अतएव त्रसन्तं बिभ्यन्तमद्यापि न त्यजति । इदानीमपि धनु -
ष्पाणिमेव त्वां सर्वदा दर्शयतीत्यर्थः । तस्यैतादृशदण्डार्हतामाह ।
स्वामात्मीयां दुहितरं पुत्रीं रोहिद्भूतां लज्जया मृगीभूतां ऋश्यस्य
मृगस्य वपुषा शरीरेण रिरमयिषुं रमयितुमिच्छुम् । इयं चेलज्जया
मृगीभूता तर्ह्यहमपि मृगरूपेणैनां भजिष्यामीति बुद्ध्या मृगरूपेण
प्रसभं हठेनानिच्छन्तीमपि तां गतं रत्यर्थं प्राप्तम् । तस्य परमवशि-
नोऽपि स्वमर्यादातिक्रमे कारणं वदन्विशिनष्टि । अभिकं कामु-
कम् । कामेनाभिभूतत्वात्स्वमर्यादोल्लङ्घिनमित्यर्थः । एवंहि पु-
राणेषु प्रसिद्धम् - 'ब्रह्मा स्वदुहितरं संध्यामतिरूपिणीमालोक्य काम-
वशो भूत्वा तामुपगन्तुमुद्यतः । सा चायं पिता भूत्वा मामुपगच्छ-
तीति लज्जया मृगीरूपा बभूव । ततस्तां तथा दृष्ट्वा ब्रह्मापि मृगरूपं
दधार । तच्च दृष्ट्वा त्रिजगन्नियन्त्रा श्रीमहादेवेनायं प्रजानाथो धर्म-
प्रवर्तको भूत्वाप्येतादृशं जुगुप्सितमाचरतीति महतापराधेन दण्ड-
नीयो मयेति पिनाकमाकृष्य शरः प्रक्षिप्तः । ततः स ब्रह्मा व्रीडितः
पीडितश्च सन् मृगशिरोनक्षत्ररूपो बभूव । ततः श्रीरुद्रस्य शरो-
ऽप्यार्द्रानक्षत्ररूपो भूत्वा तस्य पश्चाद्भागे स्थितः । तथा चार्द्रामृगशि-
रसोः सर्वदा संनिहितत्वाद्यापि न त्यजति' इत्युक्तम् । हरिपक्षे तु ।
हे नाथ, रोहिद्भूतां गतं प्रजानाथं दिवं यातमपि धनुष्पाणेस्तव
मृगव्याधरभसोऽद्यापि न त्यजति । रोहितो हरिण्याः सकाशाद्भवतीति
रोहिद्भूर्हरिणशावकः तस्य भावो रोहिद्भूता तां गतम् । हरिण -
शावकत्वं प्राप्तमित्यर्थः । प्रजाः प्राणिनो नाथति उपतापयतीति
प्रजानाथो राक्षसः स च प्रकृते मारीचाख्यस्तम् । किमर्थं तस्य
मृगरूपधारणमित्यत आह । प्रसभमभिकं रिरमयिषुं प्रकृष्टा शौर्या-
दियुक्ता सभा यस्य स प्रसभस्तं तादृशं, अभितः कानि शिरांसि
<flag>यस्य सोऽभिको</flag> दशग्रीवस्तम् । सीतापहरणोपायेन क्रीडयितु-