This page has been fully proofread once and needs a second look.

४४ महिम्नस्तोत्रम् ।
 
तु । तनुभृतामधीशः क्रतुपतिः तनुं स्वशरीरमेव बिभ्रति पुष्ण-
न्तीति तनुभृतो दैत्या देवबाह्यास्ते हि सुरनरपितृभ्यो न प्रयच्छ-
न्ति सर्वहिंसया स्वशरीरमेव पुष्णन्ति तेषामधीशो राजा बलिः
क्रतुपतिर्यजमानः, अथवा तनून्क्षीणान्बिभ्रति पुष्णन्ति ते तनु-
भृतो वदान्यास्तेषामधीशो दातृ[^१]वीराग्रण्यो बलिः । कीदृशः । क्रिया-
दक्षोदक्षः उत्कृष्टान्यक्षाणीन्द्रियाणि यस्य स उदक्षः क्रियादक्ष-
श्चासावुदक्षश्चेति स तथा । सुरेषु देवेषु गण्यन्ते इति सुरगणा
देवतुल्याः पुरुषाः सदस्याः । श्रद्धाविधुरत्वं च भगवदनुगृहीते-
न्द्रादिदेवगणैः सह विरोधात् । स्वभक्तद्रोहो हि भगवतः स्वद्रो-
हादप्यधिकः । शेपं पूर्ववत् ॥ २१ ॥
अथ ब्रह्ममारीचयोर्मृगरूपयोर्वधं दर्शयन्हरिहरौ स्तौति -
प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं
गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा ।
धनुःपाणेर्यातं दिवमपि सपत्राकृतममुं
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥ २२ ॥
प्रजानाथमिति । हे नाथ नियामक, तव परमेश्वरस्य धनुः-
पाणेः धृतपिनाकस्य मृगव्याधरभसः मृगान्विध्यतीति मृगव्याधो
लुब्धकः तस्येव रभस उत्साहातिरेको मृगव्याधरभसः शर एव
तथा आरोपितः स चार्द्रानक्षत्ररूपेण परिणत इति पुराणप्रसिद्धः ।
अमुं प्रजानाथं ब्रह्माणं दिवं स्वर्गं यातं प्राप्तमपि नक्षत्रमध्ये मृग-
शिरोरूपेण परिणतमपि तथा सपत्राकृतं सह पत्रेण शरं शरीरे प्र-
वेश्यातिव्यथां नीतः सपत्राकृतस्तादृशमिवात्मानं मन्यमानम् । रूप-
कमेतत् । शरस्यार्द्रानक्षत्ररूपेण संनिधानमात्रं नतु ताडनमिति
द्रष्टव्यम् । अथवा शरेण ताडित एव ब्रह्मा रुद्रस्य क्रोधोत्साहवि-
 
१ 'दानवाग्रगण्यो' इति पाठः ।