This page has been fully proofread once and needs a second look.

मधुसूदनीव्याख्या सहितम् । ४३
 
एवं भगवत्प्रसादेन क्रतुफलप्राप्तिमुक्त्वा विहितानां शुभफल-
जनकत्वानुपपत्त्या धर्माख्यमपूर्वं द्वारत्वेन कल्पनीयमिति पक्षो
निराकृतः । संप्रति विहिताकरणनिषिद्धकरणयोरशुभफलस्य भग-
वत्प्रसादासाध्यत्वात्तदर्थमवश्यमधर्माख्यमपूर्वं कल्पनीयमिति शङ्कायां
राजाज्ञालङ्घनादेरिव भगवदाज्ञोल्लङ्घनादखिलानर्थफलत्वं दृष्टद्वारेणैव
भविष्यतीत्यभिप्रायेण भगवतोऽप्रसादेन क्रतुफलाप्राप्तिमनर्थप्राप्तिं
च दर्शयन्हरिहरौ स्तौति –
 
क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता-
मृषीणामार्त्विज्यं शरणद सदस्या: सुरगणाः ।
क्रतुभ्रेषस्त्वत्तः क्रतुफलविधानव्यसनिनो
ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः ॥२१॥
 
क्रियेति । हे शरणद, दक्षो दक्षनामा प्रजापतिः स्वयं क्रिया-
स्वनुष्ठेयासु दक्षः प्रवीणः । यज्ञविधौ कुशल इत्यर्थः । एतेन वि-
द्वत्त्वमधिकारिविशेषणमुक्तम् । तथा तनुभृतां शरीरिणामधीशः
स्वामी प्रजापतित्वात् । एतेन सामर्थ्यमधिकारिविशेषणमुक्तम् ।
एतादृशः क्रतुपतिर्यजमानः । तथा ऋषीणां त्रिकालदर्शिनां भृगु -
प्रभृतीनामार्त्विज्यमृत्विक्त्वमध्वर्य्वादिरूपता । तथा सुरगणा
ब्रह्मादयो देवगणाः सदस्याः सभ्या उपद्रष्टारः । एतादृशसर्वसाम-
ग्रीसंपत्तावपि त्वत्तः परमेश्वरादप्रसन्नात्क्रतोयज्ञस्य भ्रेषः भ्रंशो
जातः । कीदृशात् । क्रतुफलविधानव्यसनिनः क्रतोर्यज्ञस्य फलं
स्वर्गादि तस्य विधानं निष्पादनं तेन व्यसनी तदेकनिष्ठस्तस्मात्
क्रतुफलदातृस्वभावोऽपि त्वामवज्ञाय क्रतुभ्रंशहेतुतां नीत इत्यर्थः ।
एतदेव द्रढयन्नाह । ध्रुवमिति । ध्रुवं निश्चितं क्रतुफलदातरि पर-
मेश्वरे विषये श्रद्धाविधुरं भक्तिरहितं यथा स्यात्तथानुष्ठिता मखा
यज्ञा क्रतुर्यजमानस्याभिचाराय नाशायैव भवन्तीत्यर्थ॥ हरिपक्षे