This page has been fully proofread once and needs a second look.

४२ महिम्नस्तोत्रम् ।
 
र्मानुरूपफलदातृत्वान्न वैषम्यनैर्घृण्यादिदोषप्रसङ्गः । यत एवं त्व-
मेव सर्वकर्मफलदाताऽतस्त्वां क्रतुषु श्रौतस्मार्तकर्मसु कालान्तर -
फलसाधनेषु फलदानप्रतिभुवं फलदानाय लग्नकमिव संप्रेक्ष्य स-
म्यक् श्रुतिस्मृतिन्यायैः प्रकर्षेण निश्चित्य कर्मफलदातुस्तव सद्भाव-
प्रतिपादिकायां हि श्रुतौ 'एतस्य वा अक्षरस्य प्रशासने गार्गि द्या-
वापृथिव्यौ विधृते तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि
ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ताः'
'कर्माध्यक्षः सर्वभूताधिवासः' 'एष उ ह्येव साधु कर्म कारयति तं
यमुन्निनीषते एष उ एव वाऽसाधु' इत्यादिकायां श्रुतौ श्रद्धां बद्ध्वा
अर्थवादत्वप्रयुक्तस्वार्थाप्रामाण्यशङ्कानिरासेन लोकसिद्धदृढतरन्या-
यानुगृ[^१]हीततया देवताधिकरणन्यायेन स्वार्थे प्रामाण्यं निश्चित्य जनः
श्रुतिस्मृतिविहितकर्माधिकारी कर्मसु श्रौतस्मार्तेषु कृतपरिकरः कृतः
परिकर उद्यमो येन स तथा । कृतारम्भो भवतीत्यर्थः । प्रतिभू-
सादृश्यं च एतावन्मात्रेणैव विवक्षितम् । यथा कश्चिदुत्तमर्णः
प्रमाणनिश्चितं दीर्घकालावस्थानं स्वधनार्पणसमर्थं कंचित्प्रतिभुवं
निरूप्य अधमर्णे पलायिते मृते वा एतस्मादेव कुशलिनः प्रति-
भुवः सकाशात्स्वधनं प्राप्स्यामीत्यभिप्रायेण यस्मैकस्मैचिदधमर्णायर्णं
प्रयच्छति तद्वदधमर्णस्थानीये कर्मणि प्रलीनेऽपि परमेश्वरादेव
प्रतिभूस्थानीयात्तत्फलं प्राप्यामीत्यभिप्रायेणोत्तमर्णस्थानीयो यज-
मानो निःशङ्कमेव कर्मानुतिष्ठतीति भावः ॥ हरिपक्षेप्येवं । शेषं
पूर्ववत् । यद्वा सुजनः साधुजनः कर्म श्रुतिस्मृतिविहितं कर्माकृत
कृतवान् । कीदृशः सुजनः । परिकरः परि सर्वतः कं सुखं राति
ददातीति तथा सर्वेषां सुखकरः । अहिंसक इत्यर्थः । 'दृढपरिकरः'
इति क्वचित्पाठः । तस्य दृढारम्भ इत्यर्थः । अयं च न
सांप्रदायिकः ॥ २० ॥
 
[^] 'गृहीतेन' इति पाठः ।