2023-02-17 11:16:00 by shivjun1685
This page has been fully proofread once and needs a second look.
मधुसूदनीव्याख्यांसहितम् । ४१
क्रतौ यागादिकर्मणि आशुतरविनाशिस्वभावत्वात्सुप्ते लीने स्वकारणे
सूक्ष्मरूपतां प्राप्ते ध्वस्ते सति । क्रतुमतां यागादिकर्मकारिणां का-
लान्तरदेशान्तरभावितत्तत्फलसंबन्धे तन्निमित्तं त्वं जाग्रदसि
प्रबुद्ध एव वर्तसे । वर्तमाने विहितेन शत्रा जागरणस्य सर्वदा-
स्तित्वमुच्यते तेन सर्वदैवावहितोऽसीत्यर्थः । ननु लिङादिपद-
वाच्यक्रियायाः स्वर्गादिसाधनत्वान्यथानुपपत्त्या कल्प्यमपूर्वमेव
फलयोगाय जागर्ति किमीश्वरेणेत्यत आह । क्वेत्यादि । प्रध्वस्तं
विनष्टं कर्म पुरुषस्य चेतनस्य फलदातुराराधनं विना क्व फलति ।
नक्कापीत्यर्थः । नहि लोके कुत्रापि विनष्टस्य कर्मणोऽपूर्वद्वारा
फलजनकत्वं दृष्टम् । लोकानुसारिणी च वेदेऽपि कल्पना लोक-
वदधिकरणन्यायात् । चेतनस्य तु राजादेराराधितस्य विनैवा-
पूर्वं सेवादेः फलजनकत्वं दृश्यते । तत्र लोकदृष्टप्रकारेणैव वैदि-
ककर्मणामपि फलजनकत्वसंभवे न लोकविरुद्धापूर्व फलदातृत्व-
कल्पनावकाशः । अपूर्वं हि लोकसिद्धकारणान्तरनिपेरक्षं वा स्व-
र्गादिफलं जनयेत्तत्सापेक्षं वा । आद्ये तत्फलोपभोगयोग्यदेहेन्द्रि-
यादिकमपि नापेक्षेत । न चैतदिष्टं, सर्वस्यापि सुखदुःखादेः शरी-
रसंयुक्तात्ममनोयोगादिदृष्टकारणजन्यत्वाभ्युपगमात् । द्वितीये तु
लोकसिद्धदेहेन्द्रियाद्यपेक्षावदीश्वरापेक्षापि नियता, लोके तथादर्श-
नात्। तस्माच्छ्रुतिन्यायसिद्धेश्वरपदार्थधर्मिबाघकल्पनाद्वरमपूर्वपदा-
र्थस्य नैरपेक्ष्यधर्ममात्रबाधकल्पनम् । 'फलमत उपपत्तेः' इति न्या-
यात् । इदं चापूर्वमभ्युपेत्य तत्सापेक्षत्वमीश्वरस्योक्तम् । वस्तु-
तस्तु नापूर्वे किंचित्प्रमाणमस्ति । लिङादीनामिष्टाभ्युपायतावाचक-
त्वात् । तदन्यथानुपपत्तेश्च श्रुतिन्यायसहस्रसिद्धपरमेश्वरेणैवोप-
क्षयात् नापूर्वसिद्धिः । अपूर्वं च तत्फलदातृत्वं च द्वयं भवद्भिः
कल्प्यम् । अस्माभिस्तु केवलमीश्वरः कल्प्यः । तस्य फलदातृत्वा-
दिकं तु चेतनत्वाद्राजादिवल्लोक्सिद्धमेव । सर्वज्ञत्वेन च तत्तत्क-