This page has been fully proofread once and needs a second look.

महिम्नस्तोत्रम् ।
 
मात्मीयं नेत्रकमलमेवोदहरदुत्पाटितवान् । यदैवं स्वनेत्रोत्पाटन-
रूपं भजनं, असौ भक्त्युद्रेकः भक्तेः सेवाया अत्यन्तप्रकर्षः चक्रवपुषा
सुदर्शनरूपेण परिणतिं गतः त्रयाणां जगतां रक्षायै जागर्ति । परि-
पालनार्थं सावधान एव वर्तते इत्यर्थः । एवमाख्यायिका च
पुराणप्रसिद्धा । तथा चैवंविधाचिन्त्यमाहात्म्यस्त्वमसीति भावः ॥
हरिपक्षे तु । त्रिपुरहरेति प्राग्व्याख्यातम् । हरिरिन्द्रस्तव पदयोः
साहस्रं कमलबलिमाधाय । कीदृशं नेत्रकमलं नेत्राण्येव कमलानि
यस्मिन्स तथा नेत्रसहस्रात्मकं कमलसहस्रबलिमित्यर्थः । युगप-
न्नेत्रसहस्रव्यापारेण त्वच्चरणयोर्दर्शनरूपमाराधनं कृत्वेत्यर्थः । आ-
राधनप्रयोजनमाह । निजमात्मानमेकः सहायान्तरशून्यः । अनेन
तस्मिन्नेतल्लोकविलक्षणे स्वर्गलोके उदहरदुद्धृतवान् । स्वर्लोका-
धिपतिमात्मानं कृतवानित्यर्थः । निजमुद्धर्तुं युगपन्नेत्रसहस्रेण
त्वच्चरणावलोकने यत्प्रवणत्वं असौ भक्त्तयुद्रेकः चक्रवपुषा चक्रं
सैन्यं ऐरावतोच्चैःश्रवःप्रभृति तद्रूपेण परिणतिं गतः परिणतः स-
मुद्रमथनेन लक्ष्मीपीयूषादिप्रादुर्भावात् । त्रयाणां लोकानां रक्षायै
जागर्तीत्यादिपूर्ववत् ॥ १९ ॥
एवं पूर्वश्लोकेषु परमेश्वराराधनादेव सर्वपुरुषार्थप्राप्तिरन्वयव्य-
तिरेकाभ्यामुक्ता । तत्र केचिन्मीमांसकंमन्याः परमेश्वरनिरपे-
क्षाकर्मजनितादपूर्वादेव शुभाशुभप्राप्तिरित्याहुस्तान्निराकुर्वन्हरिहरौ
स्तौति -
 
क्रतौ सुप्ते जाग्रत्वमसि फलयोगे ऋतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।
अतस्त्वां संप्रेक्ष्य क्रतुषु फलदानप्रतिभुवं
श्रुतौ श्रद्धां बद्ध्वा कृतपरिकरः कर्मसु जनः ॥२०॥
 
क्रताविति । हे त्रिपुरहरेति संबोधनं पूर्व श्लोकादनुषज्यते