This page has been fully proofread once and needs a second look.

मधुसूदनीव्याख्यासहितम् ।
 
इतिशब्दः प्रकारार्थः । त्रिभुवनमपीच्छामात्रेण संहरतस्तवैवंप्रका-
रेण सामग्रीसंपादनमाडम्बरमात्रमित्यर्थः । एवमाक्षिप्य परिहार -
माह । विधेयैरित्यादि । खलु निश्चितं प्रभोरीश्वरस्य धियो बुद्धयः
संकल्प विशेषाः परतन्त्राः पराधीना न भवन्ति, अपि तु स्वतन्त्रा
एव । ताः कीदृश्यः । विधेयैः स्वाधीनैः पदार्थैः क्रीडन्त्यः खेलन्त्यः ।
नहि क्रीडायां प्रयोजनाद्यपेक्षास्ति । तस्माद्विचित्राणि वस्तूनि स्वाधी-
नतया क्रीडासाधनीकृत्य क्रीडतस्तव सर्वाणि कार्याणि स्वेच्छामा-
त्रेण कर्तुं क्षमस्य लौकिकवैदिकनियमानधीनबुद्धेर्न किंचिद्प्यनुचि-
तमित्यर्थः ॥ हरिपक्षे तु । त्रीणि त्रिकूटगिरिशिखराणि पुराण्या-
श्रयो यस्येति त्रिपुरं लङ्कापुरं तदेव तृणं तद्दग्धुमिच्छोस्तव
कोऽयं श्रीरामरूपेण सुग्रीवसख्यसमुद्रबन्धनादिश्चाडम्बरविधिः ।
रथः क्षोणीत्यादिरूपकं । क्षोणीव रथः, शतधृतिरिव यन्ता, अगेन्द्र
इव धनुः, चन्द्रार्काविव रथचक्रे, रथचरणपाणिरिव शरः, स्वतु-
ल्यवीर्यो बाण इत्यर्थः । क्षोण्यादिसदृशरथाद्युपादानमेतादृशात्य-
ल्पप्रयोजनायापेक्षितुमुचितं न भवतीत्यर्थः । शेषं पूर्ववत् ॥ १८ ॥
अथेन्द्रोपेन्द्रयोर्भक्तिं तत्फलं च दर्शयन्हरिहरौ स्तौति -
हरिस्ते साहस्रं कमलबलिमाधाय पदयो-
र्यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलम् ।
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ १९ ॥
हरिरिति । हे त्रिपुरहर, हरिर्विष्णुस्तव पदयोः साहस्रं सह-
स्रसंख्यापरिमाणं कमलानां पद्मानां बलिमुपहारं । सहस्रकमलात्मकं
बलिमित्यर्थः । आधाय समर्प्य तस्मिन्कमलसहस्रवलावेकोने सति
एकेन कमलेन भक्तिपरीक्षार्थं त्वया गोपितेन हीने सति नियम-
भङ्गो माभूदिति तत्पूरणार्थं तदा कमलान्तरमलभमानो निज-