This page has been fully proofread once and needs a second look.

प्यास्ते, कियान्भागीरथीति गङ्गेति च प्रसिद्धो भूलोके सप्तसमु-
द्रानापूर्यास्ते, कियांस्तु भोगवतीति संज्ञया पातालमभिव्याप्यास्ते
इत्यनेन तव दिव्यवपुषो महत्त्वमनुमीयत इत्यर्थः ॥ हरिपक्षे तु ।
तारागणैर्गुणिताः फेना यस्याः सा तारागणगुणितफेना गङ्गा
तस्या उद्गमे उद्भवे रुचिः शोभा यस्य स तथा शिरसि सर्वलो-
कानां शिरःस्थानीये ब्रह्मलोके बलिछलनोत्क्षिप्तचरणाङ्गुष्ठनिर्भिन्न-
ब्रह्माण्डविवरादागतो गङ्गोत्पत्तिहेतुर्वियद्व्यापको यो वारां प्रवाहः
स ते त्वया पृषतलघुदृष्टः बिन्दोरपि लघुदृष्टः बिन्दोरपि लघु
यथा स्यात्तथोपलब्ध इत्यर्थः । अनेनैव लिङ्गेन च तव दिव्यं
वपुः बलिछलनार्थे दिव्याकाशे आविर्भावितं त्रैविक्रमं रूपं धृतम-
हिमोन्नेयम् । शेषं पूर्ववत् ॥ १७ ॥
 
अथ लङ्कात्रिपुरदाहौ दर्शयन्हरिहरौ स्तौति –
 
रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति ।
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधि-
र्विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः १८
 
रथ इति । हे ईश ! त्रिपुरतृणं दिघक्षोस्तव कोऽयमाडम्बरवि-
धिः त्रयाणां पुराणां समाहारस्त्रिपुरं तदेव तृणं अनायासनाश्यत्वात् ।
तद्दग्धुमिच्छोस्तव केयं महत्प्रयोजनमुद्दिश्येव संभ्रमरचना । नहि
लौकिका अपि नखच्छेद्ये कुठारं परिगृह्णन्ति, अतस्तवात्यल्पे
प्रयोजने न महान्प्रयास उचित इत्यर्थः । आडम्बरविधिमेव दर्श-
यति । रथ इत्यादि । क्षोणी पृथ्वी रथरूपेण परिणता, शतघृति-
र्ब्रह्मा यन्ता सारथिः, अगेन्द्रः पर्वतश्रेष्ठो मेरुः धनुः कोदण्डं,
सोमसूर्यौ द्वे चक्रे, रथचरणं चक्रं तद्युक्तपाणिर्विष्णुः शरो बाणः,
चतुर्थवाक्ये श्रुतोऽप्यथोशब्दः सर्वत्र वाक्यभेदाय योजनीयः ।