This page has been fully proofread once and needs a second look.

मधुसूदनीव्याख्यासहितम् ।
 
वक्रैव सत्यप्यृजौ प्रकारे वक्रेणैव प्रकारेण स्वसंपत्ति सफलयितुं
संपन्नः कार्यं करोतीत्यर्थः । तेनाष्टविधमैश्वर्यमौत्प[^१]त्तिकं दर्शयन्भक्ता-
नामभिध्यानाय तानि तानि श्रवणमनोहराणि चरितानि तेन तेना-
वतारेण धत्ते भगवानिति भावः ॥ १६ ॥
 
अथ गङ्गया उद्धरणधारणे दर्शयन्हरिहरौ स्तौति -
 
वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते ।
'जगद्द्वीपाकारं जलधिवलयं तेन कृतमि-
त्यनेनैवोन्ने॒यं धृतमहिम दिव्यं तव वपुः ॥ १७ ॥
 
वियदिति । हे ईश, अनेनैव लिङ्गेन तव दिव्यं दिवि भवं
सर्वदेवनियन्तृ वपुः शरीरं धृतमहिम सर्वेभ्यो महत्तरं उन्नेयमूह-
नीयम् । तब वपुषः सर्वमहत्तरत्वमेतावतापि निश्चेतुं शक्यं
किमिति प्रमाणान्तरमत्रापेक्षितव्यमिति एवकारार्थः । इतिशब्दः
प्रकारार्थे । एवंप्रकारेण लिङ्गेनेत्यर्थः । तमेव प्रकारं दर्शयति ।
वियदित्यादि । वियदाकाशं व्याप्नोत्याच्छादयतीति तथा तारागणेन
नक्षत्रवृन्देन स्वान्तःपातिना गुणिता शुभ्रत्वादिगुणसजातीयत्वाद्व-
र्धिता फेनोद्गमरुचिर्यस्य स तथा एतादृशो वारां प्रवाहः स तव
शिरसि पृषतलघुदृष्टः पृषताद्विन्दोरपि लघुरल्पतरः पृषतलघुः
स इव दृष्ट आलोकितः । तेन तु वारां प्रवाहेण जलधि-
वलयं जगद्द्वीपाकारं कृतं जलधीनां वृन्दं जगद्भूलोको द्वीपाकारं
जम्बूद्वीपादिसप्तकरूपं यस्मिंस्तत्तथा विहितम् । 'अगस्त्येन हि
सप्तसु समुद्रेषु पीतेषु पुनर्भगीरथानीतगङ्गाप्रवाहेणैव तेषां पूरणं
जातम्' इति पुराणप्रसिद्धम् । तथाच यो जलराशिस्तव शिरसि
बिन्दोरप्यल्पो दृष्टः स एवात्र कियान्मन्दाकिनीनाम्ना वियद्व्या-
 
[^१.] 'श्वर्यमात्ययिकं' इति पाठः ।