This page has been fully proofread once and needs a second look.

मधुसूदनीव्याख्यासहितम् ।
 
 
समश्चाभ्यधिकश्च विद्यते' इत्यादिश्रुतिविरोध इत्याशङ्क्य वैल-
क्षण्यमाह । नहीत्यादि । वशिषु जितेन्द्रियेषु हि यत्स्मात्स्मरो न
पथ्यो न हितः । तत्र हेतुः परिभवः परिभवत्यनर्थे योजयतीति
परिभवः कामः । स खलु सर्वेषां संसारबन्धहेतुः, परमेश्वरस्तु
सर्वेषां संसारबन्धस्यात्यन्तोच्छेदहेतुरिति महद्वैलक्षण्यमित्यर्थः ।
असिद्धार्था इत्यादि पूर्ववत् ॥ १५ ॥
अथ जगद्रक्षणार्थे नर्तनावतरणे दर्शयन्हरिहरौ स्तौति –
 
मही पादाघाताद्व्रजति सहसा संशयपदं
पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् ।
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृतजटाताडिततटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ १६॥
महीति । हे ईश, जगद्रक्षायै त्वं नटसि नृत्यसि । संध्यायां
जगन्ति जिघांसन्तं वरलब्धतत्कालबलं महाराक्षसं निजताण्डवेन
मोहयसीत्यर्थः । त्वं तु जगतां रक्षायै नृ[^१]त्यसि, जगन्ति तु त्वत्ता-
ण्डवेन संशयितानि भवन्तीत्याह । महीत्यादि । तव चरणाघातेन
सहसा संशयपदं संकटं मही व्रजति । तथा विष्णोः पदमन्तरिक्षं
भ्राम्यद्भुजपरिधरुग्णग्रहगणं भुजा एव परिघाः अतिसुवृत्तपीवरदृढ-
दीर्घत्वात्तैर्भ्राम्यद्भिर्भुजरूपपरिघै रुग्णाः पीडिताः ग्रहगणा नक्षत्रस-
मूहा यत्र तत्तथा संशयपदं व्रजतीत्यर्थः । तथा द्यौः स्वर्लोकः अनि-
भृता असंवृता या जटास्ताभिस्ताडितं तटं प्रान्तदेशो यस्याः सा
तथा मुहुर्दौस्थ्यं दुःस्थत्वं याति । एवं च क्रमेण त्रयाणां लोका-
नामपि संशयो दर्शितः । नन्वसौ सर्वज्ञोऽप्यपायमपर्यालोचयन्नेव
किमित्येवंविधताण्डवे प्रवृत्त इत्यत आह । नन्विति । ननु
अहो विभुता परममहत्ता । प्रभुतेति यावत् । वामैव प्रतिकूलेव ।
 
१. ’नटसि’ इति पाठः।