This page has been fully proofread once and needs a second look.

महिम्नस्तोत्रम् । ३४
 
असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
स्मरः स्मर्तव्यात्मा न हि विशिषु पथ्यः परिभवः १५
 
असिद्धार्था इति । हे ईश, यस्य स्मरस्य विशिखा वाणाः
सदेवासुरनरे जगति देवासुरनरादिसहिते त्रैलोक्ये जयिन
उत्सृष्टाः क्वचिदप्यसिद्धार्था अकृतकार्या न निवर्तन्ते । अपि तु
सिद्धार्था एव नित्यं जयिन एव भवन्ति । जयिन इति स्मरस्य
वा विशेषणम् । नित्यं जयशीलस्येत्यर्थः । स एतादृशपौरुषवा-
नपि स्मरः यथान्ये देवा मम जय्यास्तथाऽयमपीतीतरदेवतुल्यं
त्वां पश्यन् स्मर्तव्यात्माभूत् स्मर्तव्यः स्मरणीय आत्मा शरीरं यस्य
स तथा । नष्ट इत्यर्थः । पश्यन्निति हेतौ शतृप्रत्ययः । लक्षण-
हेतौ च शतुः स्मरणात् । 'तद्वैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे'
इतिवत् । तेनेतरदेवसाधारणत्वेन त्वद्दर्शनमेवव्यवधानेन विनाश-
हेतुः का वार्ता परिभवादेरिति भावः । तत्र कैमुतिकन्यायमाह ।
नहीत्यादि । हि यस्माद्वशिषु जितेन्द्रियेष्वन्येष्वपि परिभवस्ति-
रत्कारः पथ्यो हितो न भवति । स्वनाशायैव संपद्यत इति
यावत् । किं पुनः परमवशिनां वरे परमेश्वरे त्वयीत्यर्थः ॥
हरिपक्षे तु । हे इतरसुर सर्वविलक्षण देव, पूर्व स्मर्त-
व्यात्मा स्मृतोऽपि स्मरः कामस्त्वां पश्यन्नभूज्जातः । त्वत्सका-
शाज्जात इत्यर्थः । पितैव खलु पुत्रं जातमात्रमवलोकयति, अतः
पुत्रोऽपि तमेवावलोकयतीति पश्यन्नभूदित्यनेन जन्यजनकभावो
लभ्यते । कथं जातः । साधारणं तव तुल्यरूपं यथा स्यात्तथा ।
'आत्मा वै पुत्रनामासि' इति श्रुतेः । तत्किं सर्वांशेन भगवत्तुल्यः,
तथा च 'न तस्य प्रतिमाऽस्ति यस नाम महद्यशः', न त -