2023-02-15 13:14:23 by shivjun1685
This page has been fully proofread once and needs a second look.
मधुसूदनीव्याख्या सहितम् । ३३
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः ॥१४॥
अकाण्डेति । हे त्रिनयन, विषं समुद्रमथनोद्भुतं कालकू-
टाख्यं गरलं संहृतवतः पीतवतस्तव कण्ठे यः कल्माषः कालिमा-
सीत्स कालिमा तव कण्ठे श्रियं शोभां न कुरुते किम् । अपि तु
कुरुत एवेत्यर्थः । ननु भगवानतिशयितविशेषदर्शी महानर्थहेतुकं
विषं किमिति पीतवानित्यत आह । अकाण्ड इति । अकाण्डेऽस-
मये ब्रह्माण्डक्षयो महाप्रलयो विषोर्मिवेगात्संभावितस्तस्माच्चकिता
भीता देवाऽसुरा इन्द्रबलिप्रभृतयस्तेषु कृपा दया तया विधेयस्य
वश्यस्य । अन्यस्यैतत्पाने सामर्थ्यं नास्तीति विश्वत्राणाय विषं
स्वयमेव पीतवानित्यर्थः । ननु विषविकारात्कल्माषः कथं कण्ठे
शोभां तनोतीत्यत आह । अहो इत्यादि । अहो आश्चर्ये । भुव-
नभयभङ्गव्यसनिनः परमेश्वरस्य विकारोऽपि श्लाध्यः प्रशंसनीयः ।
भुवनस्य लोकस्य भयं त्रासस्तस्य भङ्गो निरन्वयनाशः स एव
व्यसनं सर्वमन्यद्विहाय क्रियमाणत्वाद्व्यसनं तदस्यास्तीति तथा
तस्य । तेन जगदुपकृतिकृतं दृषणमपि भूषणमेवेत्यर्थः ॥ हरि-
पक्षे तु । हे त्रिनयन त्रयाणां लोकानां नयनवत्सर्वावभासक,
'तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम्'
इति श्रुतेः । अकाण्डेऽकाले ब्रह्माण्डक्षयो महाप्रलयः । दैनं-
दिनप्रलयजलपूरवेगात्संभावितस्तस्माच्चकिता ये देवासुराः स्वायं -
भुवमनुप्रभृतयस्तद्विषयककृपावशीकृतस्य तव विषं जलं 'विषं क्ष्वेडं
विषं जलम्' इत्यादिकोशात् । तच्च प्रलयकालीनं यज्ञवाराहरूपे-
णावगाह्य पङ्कीकृत्य संहृतवतः शोषितवतः पङ्कव्यामिश्रणेन यः
कल्माषो मलिनिमासीत्स कल्माषः स्तोतृभिर्वर्ण्यमानः अर्थात्स्तो-
तॄणां कण्ठे श्रियं शोभां न कुरुते इति न । अपितु कुरुत एवेत्य-
र्थः। अर्थान्तरन्यासः पूर्ववत् ॥१४॥