This page has been fully proofread once and needs a second look.

महिम्नस्तोत्रम् ।
 
यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सती-
मध्यश्चक्रे बाणः परिजनविधेयत्रिभुवनः ।
न तच्चित्रं तस्मिन्वरिवसितरि त्वच्चरणयो-
र्न कस्या उन्नत्यै भवति शिरसस्त्वय्यवनतिः १३
 
यदिति । सुत्राम्ण इन्द्रस्यर्द्धि संपत्तिं परमोच्चैः सतीमप्यध-
श्चक्रे न्यक्कृतवान् । बाणो बलिसुतः । कीदृशः । परिजनविधेयत्रिभुवनः
परिजनो दासस्तद्वद्विधेयं वश्यं त्रिभुवनं यस्य, परिजनानामिव
विधेयं वश्यं त्रिभुवनं यस्येति वा । स तथा उच्चैः सतीं यदधश्चक्रे
तदन्यत्र चित्रमपि तस्मिन्बाणे न चित्रं नाश्चर्यम् । कीदृशे । त्वच्च-
रणयोर्वरिवसितरि नमस्कर्तरि । इन्द्रसंपत्तेरप्यधःकरणं त्वन्नम-
स्कारस्य न पर्याप्तफलं किंत्वेकदेशमात्रमित्याह । न कस्या इति ।
त्वयि विषये शिरसो याऽवनतिर्नमस्क्रिया सा कस्यै उन्नत्यै न
भवति । अपि तु सर्वामेवोन्नतिं मोक्षपर्यन्तां जनयितुं समर्था भवत्येवे-
त्यर्थः । अवनतिरप्युन्नतिहेतुरित्यतिशयोक्तिसंकीर्णोऽयमर्थान्तर-
न्यासः । सर्वोत्कृष्टत्वमचिन्त्यमहिमत्वं च भगवतः सूचयतीति
भावः ॥ हरिपक्षे तु । हे परम वरद, सुत्राम्ण इन्द्रस्य बाणः शर
एकोऽपि ऋद्धिं संपत्तिमुच्चैरधोऽपि सतीं त्रिभुवनव्यापिनीं चक्रे
कृतवानितियत् तत्तस्मिन्सुत्राम्णि न चित्रमित्यादिपूर्ववत् । त्वत्प्र-
सादादेव सर्वानसुरानेकेनापि बाणेन जित्वा त्रिभुवनराज्यं प्रा-
प्तवानिन्द्र इत्यर्थः । अत्र बाण इति शस्त्रमात्रोपलक्षणम् । कीदृशो
बाणः । परिजनवद्विधेयमायत्तं त्रिभुवनं यस्मात्स तथा । शेषं
पूर्ववत् ॥ १३ ॥
 
अधुना कालकूटप्रलयजलयोः संहारं दर्शयन्शंकरनारायणौ
स्तौति -
 
अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा-
विधेयस्यासीद्यस्त्रिनयन विषं संहृतवतः ।