This page has been fully proofread once and needs a second look.

मधुसूदनी व्याख्यासहितम् । ३१
 
 
जनमस्येति कैलः कैलोऽसिः खड्गो यस्य सः कैलासिः । इच्छामात्रेण
निर्जितसर्वशत्रोरपि तव क्रीडार्थमेव नन्दुकधारणमित्यर्थः । अमु-
ष्य बलेः त्वदधिवसतौ त्वन्निवासे तव स्वत्वास्पदीभूतेऽपि त्रैलो-
क्ये बलान्मदीयमिदं त्रैलोक्यमिति स्वत्वाभिमानाद्भुजवनं हस्तो-
दकं विक्रमयतः मम स्वत्वत्यागपूर्वकमेतस्य प्रतिग्रहीतुः
स्वत्वमुत्पादयामीत्यभिप्रायेण भगवतः पाणावुदकं प्रयच्छतः ।
कीदृशं भुजवनम् । त्वत्सेवया समधिगतः सारः सौभाग्यविशेषो येन
तत्तथा । तव पाणिपद्मसंबन्धेनातितरां शोभमानमुदकमित्यर्थः ।
तथाच सर्वजगन्निवासस्य तब स्वत्वास्पदीभूतं यत्तत्स्वकीयमिति
मत्वा तुभ्यं ददतो बलेर्महानेवापराधः । त्वया तु परमकारुणिकेन
प्रतिज्ञातविक्रमत्रयमितभूमिदानेऽपि तस्यासामर्थ्यमासाद्य तस्य
म[^१]त्ततानिवृत्तये योग्य एव दण्डः कृत इत्याह । त्वयि अलसच-
लिताङ्गुष्ठशिरसि सति तस्य प्रतिष्ठा स्थितिः पातालेऽप्यलभ्यासीत्
का वार्ता स्वर्गमर्त्ययोः । अथवा पाताले विद्यमानस्यापि बलेरि-
न्द्रादिभिरप्यलभ्या प्रतिष्ठा कीर्तिरासीत् । तत्र सर्वदा भगवतः
संनिहितत्वादिति भावः । अलसं सलीलं चलितः कम्पितोऽङ्गु-
ष्ठः शिरसि अर्थाद्बलेर्येन तस्मिन् । तथा तृतीयविक्रमभूम्यर्थं बलिना
शिरसि प्रसारिते तत्र च त्वदीयपादाङ्गुष्ठसंबन्धमात्रेणैव तस्य
पातालप्रवेशो जात इत्यर्थः । ध्रुवमुपचित इत्यार्थान्तरन्यासः
पूर्ववत् । अथवा खलोऽयमसुरो बलिरुपचितः मुह्यति । अतो
मोहनिवृत्तयेऽपचितः कर्तव्य इति भगवतोऽभिप्रायवर्णनम् । 'यस्या-
हमनुगृह्णामि तस वित्तं हराम्यहम्' इति भगवद्वचनात् ॥ १२ ॥
पूर्वत्र भगवद्विषये समुन्नतयोर्बलिरावणयोरत्यन्तमवनतिर्द-
र्शिता । अधुना तत्रावनतयोरिन्द्रबाणयोरत्यन्तमुन्नतिं दर्शयन्ह -
रिहरौ स्तौति —
 
[^] 'ममतानिवृत्तये' इति पाठः ।