This page has been fully proofread once and needs a second look.

महिम्नस्तोत्रम् ।
 
अमुष्य त्वत्सेवासमधिगतसारं भुजवनं
बलात्कैलासेऽपि त्वदधिवसतौ विक्रमयतः ।
अलभ्या पातालेऽप्यलसचलिताङ्गुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद्ध्रुवमुपचितो मुह्यति खलः १२
 
अमुष्येति ॥ हे त्रिपुरहर, अमुष्य पूर्वश्लोकोक्तस्य राव-
णस्य प्रतिष्ठा स्थितिः त्वयि अलसचलिताङ्गुष्ठशिरसि सति
पातालेऽप्यलभ्या आसीत् । अलसं मन्दं यथा स्यात्तथा चलितं
कम्पितमङ्गुष्ठशिरोऽङ्गुष्ठाग्रं येन स तथा तस्मिन् । चलितमिति
ह्रस्वत्वं च कम्पतेश्चलतेर्मित्त्वानुशासनात् । तथाच तवाङ्गुष्ठ-
कम्पनमात्रेणैव तस्य वीराभिमानिनोऽधःप्रवेशोऽशक्यप्रतीकार
आसीदित्यर्थः । अमुष्य किं कुर्वतः । त्वदधिवसतावपि कैलासे
तव मन्दिरेऽपि स्फटिकगिरौ भुजवनं भुजवृन्दं विंशतिसंख्याकं
बलाद्विक्रमयतोऽतिशौर्येण व्यापारयतः । इममुत्पाट्य लङ्कायां
नेष्यामीत्यभिप्रायेण भुजचेष्टां कुर्वत इत्यर्थः । कीदृशं भुजवनम् ।
त्वत्सेवासमधिगतसारं तव सेवया समधिगतः प्राप्तः सारो बलं येन
तत्तथा । त्वत्प्रसादेनैव बलमासाद्य त्वद्गृहमुत्पाटयतीत्यहो कृतघ्न-
ता मौढ्यं चेत्यभिप्रायः । एवं हि पुराणप्रसिद्धम् 'भगवत्प्रसादादा-
सादितबलेन रावणेन स्वबलपरीक्षार्थं भगवन्निवासस्यापि कैलास-
स्योत्पाटनमारब्धम् । ततश्च पार्वत्या भीतया प्रार्थितो भगवान्कै-
लासस्याधोगमनार्थमङ्गुष्ठाग्रमात्रं शनैर्व्यापारयामास । तावन्मा-
त्रेणैव क्षीणबलो रावणः पातालं प्रविवेश । पुनश्च भगवता करु-
णया समुद्धृतः' इति । ननु भगवत्प्रसादाल्लब्धवरो रावणः कथं
भगवन्तं तदानीं विस्मृतवानित्यत आह । ध्रुवं निश्चितं उपचितः
समृद्धः सन् खलः कृतघ्नो मुह्यति कृतं विस्मरति । स्वोपचयहेतुमपि
न गणयतीत्यर्थः ॥ हरिपक्षे तु । कैलासे केलिः क्रीडा सैव प्रयो