This page has been fully proofread once and needs a second look.

मधुसूदनीव्याख्यासहितम् । २९
 
शान्तेत्येष शौर्यातिशयो भगवद्भक्तेरेव प्रभाव इत्यर्थः । 'आसाद्य '
इति क्वचित्पाठः । तस्य प्राप्येत्यर्थः ॥ हरिपक्षे तु त्रीणि जाग्रत्स्व-
प्नसुषुप्त्याख्यानि पुराणि भक्तानां जीवानां स्वसाक्षात्कारेण हर-
तीति त्रिपुरहरो विष्णुः । हे त्रिपुरहर मोक्षदायक विष्णो, द-
शास्यो यत्तादृशान् बाहून्भुजानभृत तत्त्वद्भक्तेरेव पूर्व कृताया
इदानीं फलरूपेण परिणममानायाः, अतएव स्थिराया अनेककल्प-
व्यवधानेऽपि यावत्फलपर्यन्तं स्थायिन्यास्तव सेवाया विस्फूर्जितमिदं
नान्यस्य प्रभावोऽयमित्यर्थः । त्वदीयवैकुण्ठपुरद्वारपालस्य पार्षद-
प्रवरस्य ब्रह्मशापव्याजेन त्वदिच्छयैवासुरीं योनिमनुभवतोऽपि रा-
वणस्य त्वद्भक्तिप्रभावादेव निरतिशयं पौरुषमित्यर्थः । तथाच
बलैर्वैरोचनेः त्वद्भक्तेर्विस्फूर्जितमिदं यागशालायां त्वदागमनत्वत्पा-
णितोयदानत्वच्चरणाम्बुजस्पर्शनादि एतत्सर्वं सूचयन्संबोधयति ।
हे शिरःपद्मश्रेणीरचितचरणाम्भोरुह । अत्रापि बलेरिति संबध्यते ।
बलेः शिर एव पद्मश्रेणी पद्ममयी निःश्रेणिका पादविक्षेपभूमि-
स्तस्यां रचितमर्पितं चरणाम्भोरुहं येन स तथा । योगपद्मपीठे हि
भगवच्चरणारविन्दं तिष्ठतीति शास्त्रप्रसिद्धेः भगवच्चरणारविन्दा-
धारत्वे बलेः शिरोऽपि पद्मपीठत्वेन निरूपितम् । शिरःशब्दस्य
नित्यसापेक्षत्वाच्चात्र सापेक्षसमासो न दोषाय, देवदत्तस्य गुरु-
कुलमितिवत् । बलिना खलु भगवद्वामनावतारप्रार्थनया पदत्रय-
मिता भूमिर्देयेति प्रतिज्ञातं, तत्र पदद्वयेनैव सर्वस्मिञ्जगति भग-
वताक्रान्ते स्वसत्यपालनाय तृतीयपदस्थाने स्वशिर एव बलिना
दत्तं, तच्च भगवता स्वपादाम्बुजेनावष्टब्धमिति पुराणप्रसिद्धम् ।
नह्येतादृशः प्रसादो ब्रह्मादिभिरपि लब्धोऽस्ति । तस्माद्बलिकृताया-
स्त्वद्भक्तेरेव प्रभावोऽयमित्यर्थः ॥ ११ ॥
 
एवं बलिरावणयोर्भक्तिवशादनुग्रहं प्रदर्श्य तयोरेव दर्पवशा-
न्निग्रहं प्रदर्शयन्स्तौति-