This page has been fully proofread once and needs a second look.

महिम्नस्तोत्रम् ।
 
मथ्नन्निति गिरिशः । योजनिका पूर्ववत् । हरिः सर्पः शेषः विरंचि
शेषाभ्यामपि त्वत्कृपयैव त्वं प्राप्त इति पूर्ववत्सर्वम् । अत्र 'अनिल'
इति क्वचित्पाठः स न सांप्रदायिकः । तथा चान्यत्रोक्तम् 'नोर्ध्वं
गम्यः सरसिजभुवो नाप्यधः शार्ङ्गपाणेरासीदन्तस्तव हुतवहस्क-
न्धमूर्त्या स्थितस्य' इति ॥ १० ॥
अथ बलिरावणयोरसुरयोरपि भगवदनुग्रहं दर्शयन्स्तौति -
 
अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं
दशास्यो यद्बाहूनभृत रणकण्डूपरवशान् ।
शिरः पद्मश्रेणीरचितचरणाम्भोरुहवलेः
स्थिरायास्त्वद्भक्तेत्रिपुरहर विस्फूर्जितमिदम् ११
 
अयत्नादिति । हे त्रिपुरहर, स्थिराया निश्चलायास्त्वद्भक्तेस्तव
सेवायाः विस्फूर्जितमिदं प्रभावोऽयम् । किंविशिष्टायास्त्वद्भक्तेः ।
शिरःपद्मश्रेणीरचितचरणाम्भोरुहबलेः । शिरांस्येव पद्मानि अर्थाद्रा-
वणस्य तेषां श्रेणी पङ्किस्तया रचितः कल्पितश्चरणाम्भोरुहयोः पाद-
पद्मयोर्बलिरुपहारो यस्यां सा तथा । रावणेन हि नवभिर्निजशिरोभिः
स्वहस्तकृत्तैः शंभोरुपहारः कृत इति पुराणप्रसिद्धम् । किं तद्वि-
स्फूर्जितमित्यत आह । यत् दशास्यो रावणो बाहून्विशतिभुजान् ।
कीदृशान् । रणाय युद्धाय कण्डूः खर्जूः । अतिस्पृहेति यावत् । तया
परवशांस्तदधीनानभृत धृतवान् । रणकण्डूर्हि रणेनैव निवर्तते ।
रणसंभवाच्च सर्वदा कण्डूरेव तद्भुजेष्विति भावः । तर्हि रणं
संपाद्य किमिति तत्कण्डूं न निवर्तयतीति चेन्न, प्रतिमल्लाभावा-
दित्याह । त्रिभुवनं त्रैलोक्यमवैरव्यतिकरं न विद्यते वैरस्य विरोधस्य
व्यतिकरः कारणं दर्पादि यत्र तत्तथा आपाद्य संपद्य । त्रैलोक्यव-
र्तिनो वीरानिन्द्रादीन्स्वदास्यं नीत्वेत्यर्थः। तदप्ययत्नादयत्नेनैव ।
स्वयमेव रावणपराक्रमं श्रुत्वा सर्वे वीरा दर्पादि त्यक्तवन्त इत्यर्थः ।
तथा चानायासेनैव निर्जितत्रिजगतो रावणस्य भुजानां कण्डूर्नैव