2023-02-11 05:15:00 by shivjun1685
This page has been fully proofread once and needs a second look.
मधुसूदनीव्याख्यासहितम् । २७
न्वयव्यतिरेकाभ्यां कारणतां द्रढयितुं भगवदनुवृत्तिव्यतिरेके फल-
व्यतिरेकमाह । यद्यस्मादनलस्कन्धवपुषस्तेजःपुञ्जमूर्तेस्तवैश्वर्यं स्थूलं
रूपं परिच्छेत्तुमियत्तयावधारयितुमुपर्यूर्ध्वं विरंचिर्ब्रह्मा अधोऽधस्ताद्ध-
रिर्विष्णुः यत्नात्सर्वप्रयत्नेन यावद्गन्तुं शक्तौ तावद्यातौ गतौ अनलं
नाऽलम् । न परिच्छेत्तुं समर्थावित्यर्थः । यत्र स्थूलरूपमप्यपरि-
च्छेद्यं तत्र दुरे सूक्ष्मरूपपरिच्छेदसंभावना । तेन त्वदनुवृत्तिं विना
हरिविरंच्योः प्रसिद्धमहाप्रभावयोरपि त्वं न विज्ञेयस्तत्र का वार्ता -
ऽन्येषामिति व्यतिरेकमुक्त्वाऽन्वयमाह । ततस्तस्मा (त्कारणा) -
त्स्वयत्नवैफल्यादनन्तरं ताभ्यां हरिविरंचिभ्याम् । 'श्लाघह्नुङ्स्था-
शपां ज्ञीप्स्यमानः' इति चतुर्थी । तयोर्ज्ञानायेत्यर्थः । कीदृशाभ्यां
भक्तिश्रद्धाभरगुरुगृणद्भ्याम् । भक्तिरत्र कायिकी सेवा, श्रद्धास्तिक्य-
बुद्धिः (मानसीसेवा), तयोर्भरोऽतिशयस्तेन गुरु श्रेष्ठं निरतिशयं
यथा तथा गृणद्भ्यां स्तुवद्भ्यां वाचिकीं सेवां कुर्वद्भ्याम् । यद्धि गु-
रुतरं भवति शिलोच्चयादि तत्पवनपर्जन्यादिभिर्न विक्रियामुपैति
अलघुद्रव्यत्वात्, तथा स्तुतिरप्यतिगौरववती शिलोच्चयादिस्था-
नीया पवनपर्जन्यस्थानीयैर्विघ्नैचालयितुं न शक्येति गुरुशब्देन
ध्वनितम् । एवंरूपेण तवैश्वर्यं स्तुवद्भ्यां ताभ्यां किमित्याह ।
स्वयं तस्थे स्वयमेव नतु तयोः प्रयत्नेन तस्थे स्वमात्मानं
प्रकाशयति स्म । अत्र तवैश्वर्यमिति कर्तृपदं द्रष्टव्यम् । 'प्रकाश-
नस्थेयाख्ययोश्च' इत्यात्मनेपदम् । यद्वा गृणद्भ्यामिति कर्तरि तृतीया ।
तस्थे स्थितं निवृत्तमिति भावप्रत्ययः । ततस्तयोर्निवृत्तावपि किं
तवानुवृत्तिर्न फलति । अपितु फलत्येवेत्यर्थः । तस्मादेव हरिविरं-
चिभ्यामपि त्वदनुवृत्त्यैव त्वं साक्षात्कृतः का वार्ताऽन्येषामित्य-
न्वय उक्तः । एवं त्वदनुवृत्तिरेव सर्वं फलतीत्यन्वयव्यतिरेकाभ्यां
दृढीकृतम् ॥ हरिपक्षे तु गिरौ गोवर्धनाख्ये शेते गोपी रमयन्निति
गिरिशः श्रीविष्णुः । अथवा गिरिं मन्दरं श्यति तनूकरोति क्षीरोदं