This page has been fully proofread once and needs a second look.

२६ महिम्नस्तोत्रम् ।
 
तथाच परमेश्वरस्यापि क्षणिकविज्ञानसंतानरूपत्वादसावसत उत्प
त्तेरीष्टे नतु सतः स्थिरत्वायेति द्वितीयः पक्षः सर्वक्षणिकतावा -
दलक्षणः ॥ तदुभयपक्षासहिष्णुश्च परस्तार्किकः समस्तेऽप्येतस्मि -
ञ्जगति ध्रौव्याघ्रौव्ये नित्यत्वानित्यत्वे व्यस्तविषये भिन्नधर्मवर्तिनी
गदति ( आकाशादिचतुष्कपृथिव्यादिचतुष्कपरमाणवश्च नित्याः )
आकाशकालदिगात्ममनःपृथिव्यादिपरमाणवश्च नित्याः इति वा ।
कार्यद्रव्याणि चानित्यानि । तथा चानित्यानामुत्पत्तिविनाशयोरीष्टे
परमेश्वरो नतु नित्यानामपीत्यर्थः । इत्येवं तृतीयः पक्षः । तथाच
त्रिष्वप्येतेषु द्वैताङ्गीकारादद्वितीयसन्मात्ररूपस्य परमेश्वरस्य स्प
र्शोऽपि नास्तीति सोपाधिकसंकुचितैश्वर्यरूपेण स्तुतिः सर्वथा ल-
ज्जाकरीत्यर्थः । तर्हि किमिति न लज्जस इत्यत आह । ननु अहो
खलु निश्चितं मुखरता वाचालता धृष्टा निर्लज्जा । तथाच मुखर-
तैव लज्जामपहरतीत्यर्थः । एवं सर्वप्रकारप्रवादकवादादीनामा-
भासत्वमुक्तम्, अद्वितीयवादस्यैव लज्जानास्पदत्वेन सत्यत्वमिति
द्रष्टव्यम् । एतच्च 'त्वमर्कस्त्वं सोमः' इत्यादौ स्पष्टीकरिष्यते ।
हरिपक्षेऽप्येवम् । तत्र पुरमथनशब्दः प्राग्व्याख्यातः ॥ ९ ॥
 
एवं लोकनवकेन स्तुतिसामग्रीं निरूप्य स्तुतौ प्रस्तुतायां
समस्तप्रभाववतामग्रेसरयोर्हरिविरंच्योरपि त्वत्प्रसादादेव त्वत्सा-
क्षात्कार इत्येवं निरतिशयं माहात्म्यं प्रकटयन्स्तौति -
 
तवैश्वर्यं यत्नाद्यदुपरि विरंचिर्हरिरधः
परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः ।
ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश य
त्स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥१०॥
 
तवेति । हे गिरिश, तवानुवृत्तिः सेवा किं न फलति । अपितु
सर्वमेव फलति । त्वत्साक्षात्कारपर्यन्तं फलं ददातीत्यर्थः । तत्रा-