2023-02-08 07:07:30 by shivjun1685
This page has been fully proofread once and needs a second look.
मधुसूदनीव्याख्यासहितम् ।
कस्त्वमेवात्मा स्वरूपं यस्याः सा, तथा त्वय्यध्यस्ता सा स्वसत्ता-
स्फूर्तिप्रदं त्वां कथं व्यामोहयेदित्यर्थः । अत्रापि चक्रादीनां भगव-
द्विभूतित्वं विष्णुपुराणादौ प्रसिद्धम् ॥ ८ ॥
एवं स्तुत्ययोर्हरिहरयोर्निर्गुणं सगुणं च स्वरूपं निरूपितं, संप्रति
स्तुतेः प्रकारं निरूपयन्स्तौति-
ध्रुवं कश्चित्सर्वं सकलमपरस्त्वध्रुवमिदं
परो ध्रौव्याघ्रौव्ये जगति गदति व्यस्तविषये ।
समस्तेऽप्येतस्मिन्पुरमथन तैर्विस्मित इव
स्तुवञ्जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥९॥
ध्रुवमिति । हे पुरमथन, तैः स्तुतिप्रकारैस्त्वां स्तुवन्न जिह्रेमि
नाहं लज्जे । विसित इव जातचमत्कार इव । यथा कश्चिदद्भुतं
दृष्ट्वा विस्मितस्तत्परवशत्वालोकोपहासमगणयित्वा विचेष्टते तथा-
हमपि स्तोतुमयं न जानातीति जनो मामुपहसिष्यतीति लज्जा-
मगणयन् त्वत्स्तुतौ प्रवृत्तोऽस्मीत्यर्थः । तैः कैः प्रकारैरित्याह – ध्रुव-
मित्यादि । कश्चित्कोऽपि सांख्यपातञ्जलमतानुसारी सर्वं समग्रं ज-
गद्ध्रुवं जन्मनिधनरहितं सदेव गदति । व्यक्तं वदतीत्यर्थः। नह्य-
सत उत्पत्तिः संभवति न वा सतो विनाश इत्याविर्भावतिरोभावमा-
त्रमुत्पत्तिविनाशशब्दाभ्यामभिलक्ष्यते । तेन परमेश्वरोऽपि तावन्मा-
त्रस्येष्टे न त्वसत उत्पत्तेः, सतो वा विनाशस्येत्यभिप्रायः । इति
सत्कार्यवाद एकः पक्षः । तथाऽपरोऽन्यः सुगतमतानुवर्ती सक-
लमिदमध्रुवं क्षणिकमिति गदति । नहि सतः स्थिरत्वं संभवति ।
अर्थक्रियाकारित्वमेव सत्त्वम् । तच्च सदर्थस्सेक्ष[^१]णयोगेन न विलम्बे-
नोत्पद्यते इति । एकस्मिन्क्षणे सर्वार्थक्रियासमाप्तेरुत्तरक्षणेऽसत्त्वमेव ।
१ 'सदर्थस्याक्षेपायोगेन' इति पाठः ।