This page has been fully proofread once and needs a second look.

महिम्नस्तोत्रम् ।
 
गन्धास्त एव मृगतृष्णा जलबुद्ध्या गृह्यमाणा मरीचिका । यथा मृग-
तृष्णा रविरश्मिरूपा जलविरुद्धस्वभावापि भ्रान्त्या जलमयीवाभा-
सते तथा विषया अपि दुःखरूपा भ्रान्त्या सुखरूपा आभासन्त
इति रूपकार्थः । यत्र जीवोऽपि स्वात्मारामतां प्राप्तो न विषया-
सक्तो भवति, तत्र किमु वक्तव्यं नित्यमुक्तः परमेश्वरो विषयैर्ना-
भिभूयत इत्यभिप्रायः । तेन वृषभारूढा खट्वाङ्गपरशुफणिकपाला-
लंकृतचतुर्भुजा चर्मवसना भस्माङ्गरागा विविधभूषणा माहेश्वरी
मूर्तिर्गुरूपदेशेन ज्ञाता स्तुत्यादिभिराराध्येत्यर्थः । वस्तुतस्तु
पुरुषप्रधानमहदहंकारतन्मात्रेन्द्रिय भूतानि महोक्षादिरूपेण गुप्तानि
भगवन्तं महेश्वरमुपासत इत्यागमप्रसिद्धम् । तस्य जगत्कुटुम्बस्य
तत्त्वान्येवोपकरणमिति निष्कर्षः । हरिपक्षे तु । महोक्षः अक्षश्चक्रं
'अक्षो रथावयवके च बिभीतके स्यादक्षाणि पण्डितजना विदुरिन्द्रि-
याणि' इति धरणिः। महस्तेजोरूपं, भस्मफणिनः भस्मवच्छुभ्रस्य
कोमलाङ्गस्य च फणिनः शेषस्याऽजिनं शरीरत्वक् खट्वा शय्या । तथा
कपालं कं शिरः पाल्यतेऽनेनेति कपालं शिरउपधानं तस्यैव भस्म-
फणिनोऽङ्गं किंचिदुच्छ्रितावयवविशेषः । अथवा केन जलेन पा-
ल्यत इति कपालं पद्मं शङ्खो वा तस्मिन्पक्षे भस्म फणिनोऽङ्गं अजिनं
च खट्वा, अङ्गं पर्यङ्कस्थानीयं अजिनं च तदुपरि आस्तृतवस्त्रस्था-
नीयमिति बोद्धव्यम् । तथा परशुरिति परशुरामावताराभिप्रायेण ।
ह वरद, एतावत्तव तन्त्रोपकरणमित्यादिपूर्ववत् । अथवा विषयमृ-
गतृष्णा अविद्यान्तःकरणोपरक्तं प्रतिविम्बकल्पं जीवं व्यामोहय
त्यपि रामं अनन्तसत्यज्ञानानन्दात्मकत्वेन योगि[^१]नां रतिविषयं त्वां
बिम्बकल्पं न मोहयति न स्वावरणांशेनाभिभवति । उपाधेः प्रति-
बिम्बपक्षपातित्वात् । कीदृशी सा । स्वात्मा स्वः सच्चिदानन्दात्म-
 
[^] 'योगिनामविषयं' इति पाठः ।