This page has been fully proofread once and needs a second look.

मधुसूदनीव्याख्यासहितम् । २३
 
मबुद्ध्वा वेदविरुद्धेऽप्यर्थे तेषां तात्पर्यमुत्प्रेक्षमाणास्तत्तन्मतमेवोपादे-
यत्वेन गृह्णन्तो जना ऋजुकुटिलनानापथजुषो भवन्तीति न सर्वेषा-
मृजुमार्गे एव प्रवेशो, नच विप[^१]र्ययेऽपि परमेश्वराप्राप्तिरन्तःकर-
णशुद्धिवशेन पश्चादृजुमार्गाश्रयणादेवेत्यर्थः । हरिपक्षेऽप्येवम् ॥ ७॥
एवं सर्वशङ्कोद्धारेण हरिहरस्वरूपं निरूप्य तदेवार्वाचीनपदस्थं
स्तौति ---
 
महोक्ष: खट्वाङ्गं परशुरजिनं भस्म फणिनः
कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।
सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ८
महोक्ष इति । हे वरद, तव परिपूर्णपरमेश्वरस्याप्येतत्तन्त्रोप-
कारणं तन्त्रस्य कुटुम्बधारणस्योपकरणं साधनम् । तदेवाह । म-
होक्षः महानुक्षा वृद्धवृषभः, खट्वाङ्गं खट्वाया अवयवः शस्त्रविशेषः
कापालिकानां प्रसिद्धः, परशुः टङ्कः कुठारो वा, अजिनं चर्म, भस्म
विभूतिः, फणिनः सर्पाः, कपालं मनुष्यशिरोस्थि चेति सप्तकम् ।
नन्वेवं दरिद्रस्तुष्टोऽपि किं दास्यतीत्यत आह – सुरा इत्यादि ।
सुरास्तु भवत्सेवया भवद्भ्रूप्रणिहितां भवतो भ्रूविक्षेपमात्रेण सम-
र्पितां तां तामसाधारणीमृद्धिं संपत्तिं दधति धारयन्ति । त्वमति-
दरिद्रस्त्वद्भक्तास्तु सर्वेऽसुरास्त्वत्प्रसादात्समृद्धा इति व्यतिरेकं तु-
शब्द आह । यो ह्यन्यान्धनवतः करोति स तदपेक्षयाधिकधनवान्भ-
वतीति प्रसिद्धं लोके । ननु तर्हीदृशोऽपि स्वयं कथं महोक्षादिमा-
त्रपरिवार इत्यत आह – नहीत्यादि । हि यस्मात्स्व आत्मनि स्व-
रूपे चिदानन्दघने आरमत्याक्रीडत इति तथा तं न भ्रमयति न
मोहयति । विषयमृगतृष्णा विषया इन्द्रियार्थाः शब्दस्पर्शरूपरस-
 
[^१.] 'न वा पर्यवसानेऽपि’ इति पाठः।