This page has been fully proofread once and needs a second look.

महिम्नस्तोत्रम् ।
 
विरचितम् । तत्राध्यायपञ्चकेनापि कार्यरूपो जीवः पशुः, कारणं
पशुपतिरीश्वरः, योगः पशुपतौ चित्तसमाधानं, विधिर्भस्मना <flag>त्रिष</flag>व-
णस्नानादिर्निरूपितः । दुःखान्तसंज्ञको मोक्षश्चास्य प्रयोजनम् । एते
एव कार्यकारणयोगविधिदुःखान्ता इत्याख्यायन्ते ॥ एवं शैवं मन्त्र-
शास्त्रमपि पाशुपतशास्त्रान्तर्गतमेव द्रष्टव्यम् ॥ एवं च वैष्णवनारदा-
दिभिः कृतं पञ्चरात्रम् । तत्र वासुदेवसंकर्षणप्रद्युम्नानिरुद्धाश्चत्वारः
पदार्था निरूपिताः । भगवान्वासुदेवः परमेश्वरः सर्वकारणं त -
स्मादुत्पद्यते संकर्षणाख्यो जीवस्तस्मान्मनः प्रद्युम्नस्तस्मादनिरुद्धो-
ऽहंकारः । सर्वे चैते भगवतो वासुदेवस्यैवांशभूतास्तदभिन्ना एवेति
तस्य वासुदेवस्य मनोवाक्कायवृत्तिभिराराधनं कृत्वा कृतकृत्यो भव-
तीत्यादि च निरूपितम् । एवं वैष्णवमन्त्रशास्त्रं परिमितमपि पञ्च-
रात्रमध्येऽन्तर्भूतम् । वामागमादिशास्त्रं तु वेदबाह्यमेव ॥ तदेवं दर्शि-
तः प्रस्थानभेद । सर्वेषां संक्षेपेण त्रिविध एव प्रस्थानभेदः । तत्रार-
म्भवाद एकः, परिणामवादो द्वितीयः, विवर्तवादस्तृतीयः । पार्थि-
वाप्यतैजसवायवीयाश्चतुर्विधाः परमाणवो द्व्यणुकादिक्रमेण ब्रह्मा-
ण्डपर्यन्तं जगदारभन्ते । असदेव कार्यकारणव्यापारादुत्पद्यत इति
प्रथमः तार्किकाणां मीमांसकानां च । सत्वरजस्तमोगुणात्मकप्रधा-
नमेव महदहंकारादिक्रमेण जगदाकारेण परिणमते, पूर्वमपि सू-
क्ष्मरूपेण सदेव कार्यं कारणव्यापारेणाभिव्यज्यत इति द्वितीयः पक्षः
सांख्ययोगपाशुपतानां, ब्रह्मणः परिणामो जगदिति वैष्णवानामपि ।
स्वप्रकाशपरमानन्दाद्वितीयं ब्रह्म स्वमायावशान्मिथ्यैव जगदाकारेण
कल्प्यत इति तृतीयः पक्षो ब्रह्मवादिनाम् । सर्वेषां च प्रस्थानकर्तॄणां
मुनीनां विवर्तवादपर्यवसानेनाद्वितीये परमेश्वरे एव वेदान्तप्रति-
पाद्ये तात्पर्यम् । नहि ते मुनयो भ्रान्ताः सर्वज्ञत्वात्तेषां, किंतु ब-
हिर्विषयप्रवणानामापाततः परमपुरुषार्थे प्रवशो न भवतीति ना-
स्तिक्यनिवारणाय तैः प्रकारभेदाः प्रदर्शिताः । तत्र तेषां तात्पर्य-