This page has been fully proofread once and needs a second look.

मधुसूदनीव्याख्यासहितम् ।
 
टलावकयुद्धविधिः ४३, शुकसारिकाप्रलापनम् ४४, उत्सादनम्
४५, केशमार्जनकौशलम् ४६, अक्षरमुष्टिकाकथनम् ४७, म्ले-
छितकविकल्पाः ४८, देशभाषाज्ञानम् ४९, पुष्पशकटिकानिमित्त-
ज्ञानम् ५०, यन्त्रमातृका ५१, धरणमातृका ५२, असंवाच्यसं-
पाट्यम् मानसीका व्यक्रियाविकल्पाः ५३, छलितकयोगाः ५४,
अभिधानकोशछन्दोज्ञानम् ५५, क्रियाविकल्पाः ५६, ललितवि-
कल्पाः ५७, वस्त्रगोपनानि ५८, द्यूतविशेषः ५९, आकर्षक्रीडा
६०, बालक्रीडनकानि ६१, वैनायकीविद्याज्ञानम् ६२, वैजयिक-
विद्याज्ञानम् ६३, वैतालिकीविद्याज्ञानम् ६४, इति चतुःपष्टिकलाः)
नानामुनिभिः प्रणीतं । तस च सर्वस्य लौकिकालौकिकतत्तत्प्रयोज-
नभेदो द्रष्टव्यः । एवमष्टादश विद्यास्त्रयीशब्देनोक्ताः ॥ तथा सांख्यशा-
स्त्रं कपिलेन भगवता प्रणीतम् । तत्र त्रिविधदुःखात्यन्तनिवृत्तिरत्य-
न्तपुरुषार्थ इत्यादिषडध्यायाः । तत्र प्रथमेऽध्याये विषया निरूपिताः,
द्वितीयेऽध्याये प्रधानकार्याणि, तृतीयेऽध्याये विषयवैराग्यम्, चतु-
र्थेऽध्याये विरक्तानां पिङ्गलाकुर[^१]रादीनामाख्यायिकाः, पञ्चमेऽध्याये
परपक्षनिर्जयः, षष्ठे सर्वार्थसंक्षेप: । प्रकृतिपुरुषविवेकज्ञानं सांख्य-
शास्त्रस्य प्रयोजनम् ॥ तथा योगशास्त्रं भगवता पतञ्जलिना प्रणीतम्
'अथ योगानुशासनम्' इत्यादिपादचतुष्टयात्मकम् । तत्र प्रथमे पादे
चित्तवृत्तिनिरोधात्मकं समाधिवैराग्यरूपं च तत्साधनं निरूपि-
तम् । द्वितीये पादे विक्षिप्तचित्तस्यापि समाधिसिद्ध्यर्थं यमनिय-
मासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि निरूपि-
तानि । तृतीयपादे योगविभूतयः । चतुर्थपादे कैवल्यमिति । तस्य
च विजातीय प्रत्यय निरोधद्वारेण निदिध्यासनसिद्धिः प्रयोजनम् ॥
तथा पशुपतिमतं पाशुपतं शास्त्रं भगवता पशुपतिना पशुपाशविमो-
क्षणाय 'अथातः पाशुपतयोगविधिं व्याख्यास्यामः' इत्यादिपञ्चाध्यायं
 
१. ’कुमारादीनां’ इति पाठ: ।