2023-02-05 14:46:47 by shivjun1685
This page has been fully proofread once and needs a second look.
महिम्नस्तोत्रम् ।
दीक्षाभिषेकशकुनमङ्गलकरणादिकं च सर्वमपि प्रथमपादे निरूपि-
तम् । सर्वेषां शस्त्रविशेषाणामाचार्यस्य च लक्षणपूर्वकं संग्रहणप्र
कारो दर्शितः द्वितीये पादे । गुरुसंप्रदायसिद्धानां शस्त्रविशेषाणां
पुनःपुनरभ्यासो मन्त्रदेवतासिद्धिकरणमपि निरूपितं तृतीयपादे ।
एवं देवतार्चनाभ्यासादिभिः सिद्धानामस्त्रविशेषाणां प्रयोगश्चतुर्थ -
पादे निरूपितः । क्षत्रियाणां स्वधर्माचरणं युद्धं दुष्टदस्युचौरादिभ्यः
प्रजापालनं च धनुर्वेदस्य प्रयोजनम् । एवं च ब्रह्मप्राजापत्यादिक-
मेण विश्वामित्रप्रणीतं धनुर्वेदशास्त्रम् ॥ एवं गान्धर्ववेदशास्त्रं भर-
तेन प्रणीतम् । तत्र नृत्यगीतवाद्यभेदेन वहुविधोऽर्थः प्रपञ्चितः॥ दे
वताराधन निर्विकल्पकसमाध्यादिसिद्धिश्च गान्धर्ववेदस्य प्रयोजनम् ।
एवमर्थशास्त्रं च बहुविधं नीतिशास्त्रमश्वशास्त्रं गजशास्त्रं शिल्पशास्त्रं
सूपकारशास्त्रं चतुःषष्टिकलाशास्त्रं चेति । ( ताश्चतुःषष्टिकलाः शैवा-
गमोक्ताः- गीतम् १, वाद्यम् २, नृत्यम् ३, नाट्यम् ४, आलेख्यम्
५, विशेषकच्छेद्यम् ६, तण्डुलकुसुमबलिविकाराः ७, पुष्पास्तर-
णम् ८, दशनवसनाङ्गरागा: ९, मणिभूमिकाकर्म १०, शयनर-
चनम् ११, उदकवाद्यम् १२, उदक (घातः ) वादः १३, अद्भुत-
दर्शनवेदिता १४, मालाग्रथनकल्पः १५, शेखरापीडयोजनम् १६,
नेपथ्ययोगः १७, कर्णपत्रभङ्गाः १८, गन्धयुक्तिः १९, भूषणयो-
जनम् २०, इन्द्रजालम् २१, कौचुमारयोगाः २२, हस्तलाघवम्
२३, चित्रशाकापूपभक्तविकारक्रिया: २४, पानकरसरागासवयोज-
नम् २५, सूचीवापकर्म २६, सूत्रक्रीडा २७, वीणाडमरुकवाद्या-
नि २८, प्रहेलिकाप्रतिमालाः २९, दुर्वञ्चकयोगाः ३०, पुस्तकवाच-
नम् ३१, नाटिकाख्यायिकादर्शनम् ३२, काव्यसमस्यापूरणम् ३३,
पट्टिकावेत्रबाणविकल्पाः ३४, तर्कुकर्माणि ३५, तक्षणम् ३६,
वास्तुविद्या ३७, रूप्यरत्नपरीक्षा ३८, धातुवादः ३९, मणिराग-
ज्ञानम् ४०, आकरज्ञानम् ४१, बृक्षायुर्वेदयोगाः ४२, मेषकुक्क्रु-