This page has been fully proofread once and needs a second look.

मधुसूदनीव्याख्यासहितम् ।
 
 
 
णेति रहस्यम् ॥ एवं धर्मशास्त्राणि मनुयाज्ञवल्क्यविष्णुयमाङ्गि-
रोवसिष्ठदक्षसंवर्तशातांतपपराशरगौतमशङ्खलिखितहारीतापस्तम्बोश-
नोव्यासकात्यायनबृहस्पतिदेवलनारदपैठीनसिप्रभृतिभिः कृतानि व-
र्णाश्रमधर्मविशेषाणां विभागेन प्रतिपादकानि । एवं व्यासकृतं
महाभारतं, वाल्मीकिकृतं रामायणं च धर्मशास्त्र एवान्तभूतं स्पष्ट-
मितिहासत्वेन प्रसिद्धम् । सांख्यादीनां धर्मशास्त्रान्तर्भावेऽपीह
स्वशब्देनैव निर्देशात्पृथगेव संगतिर्वाच्या । अथ वेदचतुष्टयस्य
क्रमेण चत्वार उपवेदाः । तत्रायुर्वेदस्याष्टौ स्थानानि भवन्ति सूत्रं
शारीरमैन्द्रियं चिकित्सा निदानं विमानं कल्पः सिद्धिश्चेति । ब्रह्मप्र-
जापत्यश्विधन्वन्तरीन्द्रभरद्वाजात्रेयाग्निवेश्यादिभिरुपदिष्टश्चरकेण सं-
क्षिप्तः । तत्रैव सुश्रुतेन पञ्चस्थानात्मकं प्रस्थानान्तरं कृतम् । एवं वा-
ग्भटादिभिरपि बहुधेति न शास्त्रभेदः ॥ कामशास्त्रमप्यायुर्वेदान्तर्ग-
तमेव । सुश्रुतेन वाजीकरणाख्यकामशास्त्राभिधानात् । तत्र वात्स्या-
यनेन पञ्चाध्यायात्मकं कामशास्त्रं प्रणीतम् । तस्य च विषयवैराग्य-
मेव प्रयोजनं, शास्त्रोद्दीपितमार्गेणापि विषयभोगे दुःखमात्रपर्यवसा-
नात् । चिकित्साशास्त्रस्य च रोगतत्साधनरोगनिवृत्तितत्साधनज्ञानं
प्रयोजनम् ॥ एवं धनुर्वेदः पादचतुष्टयात्मको विश्वामित्रप्रणीतः ।
तत्र प्रथमो दीक्षापादः । द्वितीयः संग्रहपादः । तृतीयः सिद्धि-
पादः । चतुर्थः प्रयोगपादः । तत्र प्रथमपादे धनुर्लक्षणमधिकारि-
निरूपणं च कृतम् । तत्र धनुःशब्दश्चापे रूढोऽपि चतुर्विधायुध-
वाची वर्तते । तच्च चतुर्विधं मुक्तं अमुक्तं मुक्तामुक्तं यन्त्रमुक्तं च ।
तत्र मुक्तं चक्रादि, अमुक्तं खड्गादि, मुक्तामुक्तं शल्यावान्तरभेदादि ।
यन्त्रमुक्तं शरादि । तत्र मुक्तमस्त्रमित्युच्यते । अमुक्तं शस्त्रमित्युच्यते ।
तदपि ब्राह्मवैष्णवपाशुपतप्राजापत्याग्नेयादिभेदादनेकविधम् । एवं
साधिदैवतेषु समन्त्रकेषु चतुर्विधायुधेषु येषामधिकारः क्षत्रियकुमारा-
णां तदनुयायिनां च ते सर्वे चतुर्विधाः पदातिरथगजतुरगारूढाः