This page has been fully proofread once and needs a second look.

१८ महिम्नस्तोत्रम् ।
 
Sस्पष्ट ब्रह्मलिङ्गानि प्रायशो ज्ञेयब्रह्मविषयाणि । एवं पादत्रयेण वा-
क्यविचारः समापितः । चतुर्थपादे तु प्रधानविषयत्वेन संदिह्यमा-
नान्यव्यक्ताजादिपदानि चिन्तितानि ॥ एवं वेदान्तानामद्वये ब्रह्मणि
सिद्धे समन्वये तत्र संभावितस्मृतितर्कादिविरोधमाशङ्क्य तत्परिहारः
क्रियत इत्यविरोधो द्वितीयाध्यायेन दर्शितः । तत्राद्यपादे सांख्ययो•
गकाणादादिस्मृतिभिः सांख्यादिप्रयुक्तैस्तर्कैश्च विरोधो वेदान्तसम-
न्वयस्य परिहृतः । द्वितीये पादे सांख्यादिमतानां दुष्टत्वं प्रतिपा-
दितं, स्वपक्षस्थापनपरपक्षनिराकरणरूपपक्षद्वयात्मकत्वाद्विचारस्य ।
तृतीये पादे महाभूतसृष्ट्यादिश्रुतीनां परस्परविरोधः पूर्वभागेन
परिहृतः । उत्तरभागेन तु जीवविषयाणाम् । चतुर्थपादे इन्द्रियादि-
विषयश्रुतीनां विरोधपरिहारः ॥ तृतीयाध्याये साधननिरूपणम् ।
तत्र प्रथमपादे जीवस्य परलोकगमननिरूपणेन वैराग्यं निरूपि-
तम् । द्वितीयपादे पूर्वभागेन त्वंपदार्थः शोधितः । उत्तरभागेन
च तत्पदार्थः । तृतीयपादे निर्गुणे ब्रह्मणि नानाशाखापठितः पुनरु
क्तपदोपसंहारः कृतः। प्रसङ्गाच्च सगुणविद्यासु शाखान्तरीयगुणोपसं-
हारानुपसंहारौ निरूपितौ । चतुर्थपादे निर्गुणब्रह्मविद्याया बहिरङ्ग-
साधनान्याश्रमधर्मयज्ञदानादीनि, अन्तरङ्गसाधनानि शमदमनि-
दिध्यासनादीनि च निरूपितानि ॥ चतुर्थेऽध्याये सगुणनिर्गुण-
विद्ययोः फलविशेषनिर्णयः कृतः । तत्र प्रथमपादे श्रवणाद्यावृत्त्या
निर्गुणं ब्रह्म, उपासनावृत्त्या सगुणं वा ब्रह्म साक्षात्कृत्य जीवतः
पापपुण्यालेपलक्षणा जीवन्मुक्तिरभिहिता । द्वितीयपादे म्रियमाण-
सोत्क्रान्तिप्रकारश्चिन्तितः । तृतीयपादे सगुणब्रह्मविदो मृतस्यो-
तरमार्गोऽभिहितः । चतुर्थपादे पूर्वभागेन निर्गुणब्रह्मविदो विदे-
हकैवल्यप्राप्तिरुक्ता । उत्तरभागेन सगुणब्रह्मविदो ब्रह्मलोके स्थिति-
रुक्तेति । इदमेव सर्वशास्त्राणां मूर्धन्यं, शास्त्रान्तरं सर्वमस्यैव शेष-
भूतमितीदमेव मुमुक्षुभिरादरणीयं श्रीशंकरभगवत्पादोदितप्रकारे-