2023-02-25 03:10:46 by shivjun1685
This page has been fully proofread once and needs a second look.
ग्नेयं भविष्यं ब्रह्मवैवर्तं लैङ्गं वाराहं स्कान्दं वामनं कौर्मं मात्स्यं गारुडं
ब्रह्माण्डं चेत्यष्टादश । एवमुपपुराणान्यप्यनेकप्रकाराणि द्रष्टव्यानि ॥
न्याये आन्वीक्षिकी पञ्चाध्यायी गौतमेन प्रणीता । प्रमाणप्रमेयसं-
शयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वा-
भासच्छलजातिनिग्रहस्थानाख्यानां षोडशपदार्थानामुद्देशलक्षणप-
रीक्षाभिस्तत्त्वज्ञानं तस्याः प्रयोजनम् । एवं दशाध्यायं वैशेषिकशास्त्रं
कणादेन प्रणीतम् । द्रव्यगुणकर्म सामान्य विशेषसमवायानां षण्णां
भावपदार्थानामभावसप्तमानां साधर्म्यवैधर्म्याभ्यां व्युत्पादनं तस्य
प्रयोजनम् । एतदपि न्यायपदेनोक्तम् ॥ एवं मीमांसापि द्विविधा ।
कर्ममीमांसा शारीरकमीमांसा च । तत्र द्वादशाध्यायी कर्ममीमांसा
'अथातो धर्मजिज्ञासा' इत्यादिः 'अन्वाहार्ये च दर्शनात्' इत्यन्ता
भगवता जैमिनिना प्रणीता । तत्र धर्मप्रमाणं १, धर्मभेदाभेदौ २,
शेषशेषिभावः ३, क्रत्वर्थपुरुषार्थभेदेन प्रयुक्तिविशेषः ४, श्रुत्यर्थ-
पाठादिक्रमभेदः ५, अधिकारविशेषः ६, सामान्यातिदेशः ७,
विशेषातिदेशः ८, ऊहः ९, बाधः १० तन्त्रं ११, प्रसङ्गश्च १२,
इति क्रमेण द्वादशानामध्यायानामर्थाः । तथा च संकर्षकाण्डम-
प्यध्यायचतुष्टयात्मकं जैमिनिना प्रणीतम् । तच्च देवताकाण्संज्ञया
प्रसिद्धमप्युपासनाख्यकर्मप्रतिपादनत्वात्कर्ममीमांसान्तर्गतमेव ॥ तथा
चतुरध्यायी शारीरकमीमांसा 'अथातो ब्रह्मजिज्ञासा' इत्यादिः
'अनावृत्तिः शब्दात्' इत्यन्ता जीवब्रह्मैकत्वसाक्षात्कारहेतुश्रवणा-
ख्यविचारप्रतिपादकान्न्यायानुपदर्शयन्ती भगवता बाद्रायणेन कृता ।
तत्र सर्वेषामपि वेदान्तवाक्यानां साक्षात्परम्परया वा प्रत्यग-
भिन्नाद्वितीये ब्रह्मणि तात्पर्यमिति समन्वयः प्रथमाध्यायेन प्रदर्शितः ।
तत्र च प्रथमपादे स्पष्टब्रह्मलिङ्गयुक्तानि वाक्यानि विचारितानि ।
द्वितीयपादे त्वस्पष्टब्रह्मलिङ्गयुक्तान्युपास्यब्रह्मविषयाणि । तृतीयपादे-