This page has been fully proofread once and needs a second look.

महिम्नस्तोत्रम् ।
 
कमन्त्रपदानामर्थः प्रदर्शितः । मन्त्राणां चानुष्ठेयार्थप्रकाशनद्वारेणैव
करणत्वात्, पदार्थज्ञानाधीनत्वाच्च वाक्यार्थज्ञानस्य मन्त्रस्थपदा-
र्थज्ञानाय निरुक्तमवश्यमपेक्षितम् । अन्यथानुष्ठानासंभवात् 'सृण्येव
जर्भरी तुर्फरीतून' इत्यादीनामतिदुरूहाणां प्रकारान्तरेणार्थज्ञानस्यासं-
भावनीयत्वाच्च । एवं निघण्ट्वादयोऽपि वैदिकद्रव्यदेवतात्मक पदार्थप -
र्यायशब्दात्मका निरुक्तान्तर्भूता एव । तत्रापि निघण्टुसंज्ञकः पञ्चा-
ध्यायात्मको ग्रन्थो भगवता यास्केनैव कृतः । अन्येप्यमरहेमचन्द्रा-
दिप्रणीताः कोषाः सर्वे निघण्टुरूपत्वेन निरुक्तान्तर्गता द्रष्टव्याः ।
एवमृङ्मन्त्राणां पादबद्धच्छन्दोविशेषविशिष्टत्वात्तदज्ञाने च निन्दा-
श्रवणाच्छन्दोविशेषनिमित्तानुष्ठानविशेषविधानाच्च छन्दोज्ञानाका-
ङ्क्षायां तत्प्रकाशनाय 'धीश्रीस्त्रीम्' इत्याद्यष्टाध्यायात्मिका छन्दोवि-
चितिर्भगवता पिङ्गलनागेन विरचिता । तत्र 'अथ लौकिकम्'
इत्यन्तेनाध्यायत्रयेण गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगतीति
सप्त छन्दांसि सर्वाणि सावान्तरभेदानि प्रसङ्गान्निरूपितानि । 'अथ
लौकिकम्' इत्यारभ्याध्यायपञ्चकेन पुराणेतिहासादावुपयोगीनि
लौकिकानि छन्दांसि प्रसङ्गान्निरूपितानि व्याकरणे लौकिकपद-
निरूपणवत् । एवं वैदिककर्माङ्गदर्शादिकालज्ञानाय ज्योतिषं भग-
वतालगधेन गर्गादिभिश्च प्रणीतं बहुविधमेव । एवं शाखान्तरीय-
गुणोपसंहारेण वैदिकानुष्ठानक्रमविशेषज्ञानाय कल्पसूत्राणि । तानि
च प्रयोगत्रयभेदास्त्रिविधानि । तत्र हौत्रप्रयोगप्रतिपादकान्याश्वला-
यनसांख्यायनादिप्रणीतानि । आध्वर्यवप्रयोगप्रतिपादकानि बौधाय-
नापस्तम्बकात्यायनादिप्रणीतानि । औद्गात्रप्रयोगप्रतिपादकानि तु
लाट्या[^१]यनत्रीयायणादिभिः प्रणीतानि । एवं निरूपितः षण्णामङ्गानां
प्रयोजनभेदः ॥ चतुर्णामुपाङ्गानामधुनोच्यते । तत्र सर्गप्रतिसर्गवंशम-
न्वन्तरवंशानुचरितप्रतिपादकानि भगवता बादरायणेन कृतानि पुरा-
 
१ 'लाह्यायनद्राह्मायणादिभिः' इति पाठः ।