This page has been fully proofread once and needs a second look.

मधुसूदनीव्याख्यासहितम् ।
 
यज्ञनिर्वाहार्थमृग्यजुःसामभेदेन भिन्नः । तत्र हौत्रप्रयोग ऋग्वेदेन,
आध्वर्यवप्रयोगो यजुर्वेदेन, औद्गात्रप्रयोगः सामवेदेन । ब्राह्मयाज-
मानप्रयोगौ त्वत्रैवान्तर्भूतौ अथर्ववेदस्तु यज्ञानुपयुक्तोऽपि शान्ति-
कपौष्टिकाभिचारिकादिकर्मप्रतिपादकत्वेनात्यन्तविलक्षण एव । एवंच
प्रवचनभेदात्प्रतिवेदं भिन्ना भूयसः शाखाः । एवंच कर्मकाण्डे व्या-
पारभेदेऽपि स[^१]र्वासां वेदशाखानामेकरूपकत्वमेव ब्रह्मकाण्डमिति
चतुर्णां वेदानां प्रयोजनभेदेन भेद उक्तः ॥ अथाङ्गानामुच्यते । तत्र
शिक्षाया उदात्तानुदात्तस्वरितह्रस्वदीर्घप्लुतादिविशिष्टस्वरव्यञ्जना-
त्मकवर्णोच्चारणविशेषज्ञानं प्रयोजनम् । तदभावे मन्त्राणामनर्थक-
फलत्वात् । तथा चोक्तम् – "मन्त्रो हीनः स्वरतो वर्णतो वा
मिथ्या प्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथे-
न्द्रशत्रुः स्वरतोऽपराधात्" इति । तत्र सर्ववेदसाधारणी शिक्षा 'अथ
शिक्षां प्रवक्ष्यामि' इत्यादिन[^२]वखण्डात्मिका पाणिनिना प्रकाशिता ।
प्रतिवेदशाखं च भिन्नरूपाः प्रातिशाख्यसंज्ञिता अन्यैरेव मुनिभिः
प्रदर्शिताः । एवं वैदिकपदसाधुत्वज्ञानेनोहादिकं व्याकरणस प्रयोज-
नम् । तच्च 'वृद्धिरादैच्' इत्याद्यध्यायाष्टकात्मकं महेश्वरप्रसादेन
भगवता पाणिनिनैव प्रकाशितम् । तत्र कात्यायनेन मुनिना पा-
णिनीयसूत्रेण वार्तिकं विरचितम् । तद्वद्वार्तिकोपरि च भगवता प
तञ्जलिना महाभाष्यमारचितम् । तदेतत्रिमुनिव्याकरणं वेदाङ्ग-
माहेश्वरमित्याख्यायते । कौमारादिव्याकरणानि तु न वेदाङ्गानि
किंतु लौकिकप्रयोगमात्रज्ञानार्थानीत्यव<error>गव्यम्</error> <fix>गन्तव्यम्</fix> । एवं शिक्षाव्या-
करणाभ्यां वर्णोच्चारणे पदसाधुत्वे च ज्ञाते वैदिकमन्त्रपदानामर्थ-
ज्ञानाकाङ्क्षायां तदर्थं भगवता यास्केन 'समाम्नायः समाम्नतः (स व्या-
ख्यातव्यः )' इत्यादि त्रयोदशाध्यायात्मकं निरुक्तमारचितम् । तत्र
च नामाख्यातनिपातोपसर्गभेदेन चतुर्विधं पदजातं निरूप्य वैदि-
 
१ 'सर्वात्मना' इति पाठः। २ ’पञ्चखण्डात्मिका’ इति पाठः।