This page has been fully proofread once and needs a second look.

महिम्नस्तोत्रम् ।
 
प्रधानस्वरूपनिर्वाहकं प्रथमं यथाऽवहननप्रोक्षणादिफलोपकारि । द्वि-
तीयं यथा प्रयाजादि । एवं संपूर्णाङ्गसंयुक्तो विधिः प्रकृतिः । विकला-
ङ्गसंयुक्तो विधिर्विकृतिः। तदुभयविलक्षणो विधिर्दर्वीहोमः । एवमन्य-
दप्यूह्यम् । तदेवं निरूपितो विधिभागः । प्राशस्त्यनिन्दान्यतरलक्ष-
णया विधिशेषभूतं वाक्यमर्थवादः । सच त्रिविधः । गुणवादोऽनुवादो
भूतार्थवादश्चेति । तत्र प्रमाणान्तरविरुद्धार्थबोधको गुणवादः 'आ-
दित्यो यूपः' इत्यादिः । प्रमाणान्तरप्राप्तार्थबोधकोऽनुवादः 'अग्नि-
र्हिमस्य भेषजम्' इत्यादिः । प्रमाणान्तरविरोधतत्प्राप्तिरहितार्थबो-
धको भूतार्थवादः 'इन्द्रो वृत्राय वज्रमुदयच्छत्' इत्यादिः । तदु-
क्तम् – 'विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्त-
द्धानादर्थवादस्त्रिधा मतः' इति । तत्र त्रिविधानामप्यर्थवादानां
विधिस्तुतिपरत्वे समानेऽपि भूतार्थवादानां स्व[^१]तःप्रामाण्यम् । देव-
ताधिकरणन्यायात् । अबाधिताज्ञातार्थज्ञापकत्वं हि प्रामाण्यम् ।
तच्च बाधितविषयत्वाज्ज्ञापकत्वाच्च न गुणवादानुवादयोः । भूता-
र्थवादस्य तु स्वार्थे तात्पर्यरहितस्याप्यौत्सर्गिक प्रामाण्यं न विह-
न्यते । तदेवं निरूपितोऽर्थवादभागः । विध्यर्थवादोभयविलक्षणं
तु वेदान्तवाक्यम् । तच्चाज्ञातज्ञापकत्वेऽप्यनुष्ठानाप्रतिपादकत्वान्न
विधिः । स्वतः पुरुषार्थपरमानन्दज्ञानात्मकब्रह्मणि स्वार्थे उपक्रमोप-
संहारादिषड्विधतात्पर्यलिङ्गवत्तया स्वतःप्रमाणभूतं सर्वानपि विधी-
नन्तःकरणशुद्धिद्वारा स्वशेषतामापादयदन्यशेषत्वाभावाच्च नार्थ-
वादः। तस्मादुभयविलक्षणमेव वेदान्तवाक्यम् । तच्च क्वचिदज्ञातज्ञा-
पकत्वमात्रेण विधिरिति व्यपदिश्यते । विधिपदरहितमपि प्रमाण-
वाक्यत्वेन च क्वचिद्भूतार्थवाद. इति व्यवहियत इति न दोषः ।
तदेवं त्रिविधं निरूपितं ब्राह्मणम् ॥ एवं च कर्मकाण्डब्र-
ह्मकाण्डात्मको वेदो धर्मार्थकाममोक्षहेतुः । स च प्रयोगत्रयेण
 
 
 
१ 'स्वार्थेऽपि' इति पाठः ।