This page has been fully proofread once and needs a second look.

मधुसूदनीव्याख्यासहितम् ।
 
न्दोविशिष्टा ऋचः 'अग्निमीळे पुरोहितम्' इत्याद्याः । ता एव गीति-
विशिष्टाः सामानि। तदुभयविलक्षणानि यजूंषि । 'अग्नीदग्नीन्विहर'
इत्यादिसंबोधनरूपा निगदसंज्ञामन्त्रा अपि यजुरन्तर्भूता एव ।
तदेवं निरूपिता मन्त्राः ॥ ब्राह्मणमपि त्रिविधम् । विधिरूपम्,
अर्थवादरूपम्, तदुभयविलक्षणं च । तत्र शब्दभावना विधिरिति
भाट्टाः । नियोगो विधिरिति प्राभाकराः । इष्टसाधनता विधिरिति
तार्किकादयः । सर्वो विधिरपि चतुर्विधः । उत्पत्यधिकारविनियो-
गप्रयोगभेदात् । त[^१]त्र देवताकर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः
'आग्नेयोऽष्टाकपालो भवति' इत्यादिः । सेतिक[^२]र्तव्यताकस्य करणस्य
यागादेः फलसंवन्धबोधको विधिरधिकारविधिः 'दर्शपूर्णमासाभ्यां
स्वर्गकामो यजेत' इत्यादिः । अङ्गसंबन्धबोधको विधिर्विनियोग-
विधिः 'व्रीहिभिर्यजेत', 'समिधो यजति' इत्यादिः । साङ्गप्रधानक-
र्मप्रयोगैक्यबोधकः पूर्वविधित्रयमेलनरूपः प्रयोगविधिः । सच
श्रौत इत्येके । काल्प इत्यपरे ॥ कर्मस्वरूपं च द्विविधम् । गुणकर्म
अर्थकर्म च । तत्र ऋतुकारकाण्याश्रित्य विहितं गुणकर्म । तदपि
चतुर्विधम् । उत्पत्त्याप्तिविकृतिसंस्कृतिभेदात् । तत्र 'वसन्ते ब्राह्म-
णोऽग्नीनादधीत', 'यूपं तक्षति' इत्यादावाधानतक्षणादिना संस्का-
रविशेषविशिष्टाग्नियूपादेरुत्पत्तिः । 'स्वाध्यायोऽध्येतव्यः,' 'गां पयो
दोग्धि' इत्यादावध्ययनदोहनादिना विद्यमानस्यैव स्वाध्यायपयः-
प्रभृतेः प्राप्तिः । 'सोममभिषुणोति', 'व्रीहीनवहन्ति', 'आज्यं विला-
पयति' इत्यादावभिषवावघातविलापनैः सोमादीनां विकारः । 'व्रीही-
न्प्रोक्षति', 'पत्न्यवेक्षते' इत्यादौ प्रोक्षणावेक्षणादिभिर्व्रीह्यादिद्रव्याणां
संस्कारः। एतच्चतुष्टयं चाङ्गमेव । तथा क्रतुकारकाण्यनाश्रित्य विहि-
तमर्थकर्म । तच्च द्विविधम् अङ्गं प्रधानं च । अन्यार्थमङ्गम् । अनन्यार्थं
प्रधानम् । अङ्गमपि द्विविधं संनिपत्योपकारकमारादुपकारकं च । तत्र
 
[^१] 'तत्र कर्मस्वरूप' इति पाठः ।
[^२] 'इतिकर्तव्यताकरणस्य' इति पाठः ।