2023-02-25 01:21:01 by shivjun1685
This page has been fully proofread once and needs a second look.
ङ्गानि षट् । पुराणानि न्यायो मीमांसा धर्मशास्त्राणि चेति चत्वार्यु -
पाङ्गानि । अत्रोपपुराणानामपि पुराणेष्वन्तर्भावः । वैशेषिकशास्त्रस्य
न्याये, वेदान्तशास्त्रस्य मीमांसायां, महाभारतरामायणयोः सांख्य-
पातञ्जलपाशुपतवैष्णवादीनां च धर्मशास्त्रेष्विति मिलित्वा चतुदर्श
विद्याः। तथाचोक्तम् 'पुराणन्यायमीमांसाधर्मशास्त्राङ्ग मिश्रिताः । वेदाः
स्थानानि विद्यानां धर्मस्य च चतुर्दश' इति । एता एव चतुर्भिरुपवेदैः
सहिता अष्टादश विद्या भवन्ति । आयुर्वेदो धनुर्वेदो गान्धर्ववेदोऽर्थ-
शास्त्रं चेति चत्वार उपवेदाः । ता एता अष्टादश विद्यास्त्रयी सांख्यमि•
त्यनेनोपन्यस्ताः।अन्यथा न्यूनताप्रसङ्गात् । सर्वेषां चास्तिका नामेताव-
न्त्येव शास्त्रप्रस्थानानि । अन्येषामप्येकदेशिनामेष्वेवान्तर्भावात् । ननु
नास्तिकानामपि प्रस्थानान्तराणि सन्ति तेषामेतेष्वनन्तर्भावात्पृथग्ग-
णयितुमुचितानि । तथाहि शून्यवादेनैकं प्रस्थानं माध्यमिकानाम् । क्ष-
णिकविज्ञानमात्रवादेनापरं योगाचाराणाम् । ज्ञानाकारानुमेयक्षणिक-
बाह्यार्थवादेनापरं सौत्रान्तिकानाम् । प्रत्यक्षस्वलक्षणक्षणिकबाह्यार्थ-
वादेनापरं वैभाषिकानाम् । एवं सौगतानां प्रस्थानचतुष्टयम् । तथा दे-
हात्मवादेनैकं प्रस्थानं चार्वाकाणाम् । एवं देहातिरिक्तदेहपरिणामा
त्मवादेन द्वितीयं प्रस्थानं दिगम्बराणाम् । एवं मिलित्वा नास्तिकानां
षट् प्रस्थानानि तानि कस्मान्नोच्यन्ते । सत्यम् । वेदबाह्यत्वात्तु तेषां
म्लेच्छादिप्रस्थानवत्परम्परयापि
व । इह च साक्षाद्वा परम्परया वा पुमर्थोपयोगिनां वेदोपकरणानामेव
प्रस्थानानां भेदो दर्शितोऽतो न न्यूनत्वशङ्कावकाशः ॥ अथ संक्षेपे-
णैषां प्रस्थानानां स्वरूपभेदहेतुः प्रयोजनभेद उच्यते बालानां व्यु-
त्पत्तये । तत्र धर्मब्रह्मप्रतिपादकमपौरुषेयं प्रमाणवाक्यं वेदः । स च
मन्त्रब्राह्मणात्मकः। तत्र मन्त्रा अनुष्ठानकारणभूतद्रव्यदेवताप्रकाशकाः।
तेऽपि त्रिविधाः ऋग्यजुःसामभेदात् । तत्र पादबद्धगायत्र्यादिच्छ-